________________
६७४
न्यायकोशः। विनाकृतस्य रूढ्यर्थस्येव रूढ्यर्थविनाकृतस्यापि योगार्थस्य बोधकं भवति। मण्डपे शेत इत्यादौ योगार्थस्य मण्डपानकर्तादेरिव मण्डपं भोजयेदित्यादौ समुदितार्थस्य गृहादेरयोग्यत्वेनान्वयाबोधात् । योगरूढं तु पङ्कजादिपदमवयववृत्त्या रूढ्यर्थमेव समुदायशक्त्या चावयवलभ्यार्थमेवानुभावयति न त्वन्यम् (श० प्र० श्लो० २५ टी० पृ० ३२ ) इति । योगरूढं द्विविधम् समासात्मकम् तद्धिताक्तं चेति । तत्र समासात्मकं कृष्णसर्पादि । तद्धिताक्तं तु वासुदेवादिपदम् । कृदन्तस्य पङ्कजादियोगरूढस्य सामासिक एवान्तर्भावः इति नाधिक्यम् ( श० प्र०
श्लो० २८ टी० पृ० ३७ )। योगरूढिः- ( पदशक्तिः ) [क] शब्दस्य वृत्तिविशेषः । यया वृत्त्या
पङ्कजनिकर्तृत्वविशिष्टपद्मस्य बोधः (हेमचन्द्रः)। यथा पङ्कजब्राह्मणादिपदे योगरूढिः । अत्र व्युत्पत्तिः योगेन सहिता रूढिः इति (नील० ४ पृ० ३१ )। अत्र विप्रतिपत्तिः । पङ्कजादिपदानां योग एव इत्येके वदन्ति । रूढिः इत्यपरे वदन्ति । योगरूढिः इति गौतमीयाः आहुः (न्या० सि० दी० पृ० ४२ )। अयं भावः । पङ्कजपदात् पद्मत्वविशिष्टप्रतीतये पद्मत्वविशिष्टे पङ्कजसमुदायस्य रूढिरावश्यकी । पदानियतोपस्थितेवृत्तिसाध्यत्वात् । पङ्कजपदाद्योगेन कुमुदस्यापि बोधप्रसङ्गाच्च । मन्मते कदाचित्कुमुदबोधस्तु लक्षणयैव इति (त० प्र० ख० ४ पृ० ३१ ) । अत्रायं विशेषः । यत्र योगार्थान्वितरूढ्यर्थावबोधः तत्र सर्वत्र योगरूढिः । यौगिकार्थबुद्धिरूपसहकारिलाभाविशिष्टार्थोपस्थापकत्वं रूढेर्योगरूढित्वम् (न्या० सि० दी० पृ० ४८ )। [ख] वैयाकरणास्तु यत्र शास्त्रकल्पितावयवान्वितविशेष्यभूतार्थनिरूपितं समुदाये. बोधकत्वम् सा योगरूढिः । यथा पङ्कजादिपदे इत्याहुः । अत्र पङ्कजनिकर्तृ पद्मम् इति बोधात् पद्मस्यानुपपत्तिप्रतिसंधानं संबन्धप्रतिसंधानं च विना बोधान्न तत्र लक्षणाया अवसरः । क्वचित् तात्पर्यग्राहकवशात् केवलरूढ्यर्थस्य केवलयोगार्थस्य च बोधः । यथा भूमौ पङ्कजमुत्पन्नं कल्हारकैरवमुखेष्वपि पङ्कजेषु इत्यादौ ( ल० म० आकाङ्क्षादिवि० पृ० १२ )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org