________________
६७२
न्यायकोशः। घटः इति वाक्यजन्यशाब्दबोधे घटांशे भूतलवृत्तित्वावगाहित्वस्यानुभवसिद्धतया भूतले न घटः इति वाक्यजन्यशाब्दबोधे घटांशे भूतलवृत्तित्वाभावोवश्यमभ्युपगन्तव्यः इति । इदमत्राकूतम् । भूतले न घटः इति वाक्यजन्यस्याप्रामाण्यज्ञानानास्कन्दितबोधस्य भूतले घटः इत्यादिवाक्यजन्यघटादिविशेष्यकभूतलाद्याधेयत्वप्रकारकबोधविरोधितया नञ्पदं विना यत्र धर्मिणि यस्य विशेषणतया भानं यादृशसमभिव्याहाराद्भवति तादृशसमभिव्याहारस्थले नसत्त्वे तत्रं धर्मिणि तदभावः प्रतीयते इति नियमोङ्गीकर्तव्यः । अयमेव प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमौ इति न्यायस्यार्थः इति (ग० व्यु० का० १ )। यथा वा प्रवृत्ति प्रतीष्टसाधनताज्ञानस्य हेतुतायां प्रविष्टा योगक्षेमसाधारणी साधनता। नैयायिकमते संध्यावन्दनादिनित्यकर्मणामर्थवादोपस्थापितब्रह्मलोकावाप्तिप्रत्यवायानुत्पत्तिरूपफलकल्पनेन तादृशफलस्य तु स्वतः पुरुषार्थत्वाभावेन तत्रेच्छानुत्पत्तौ कथं तादृशकर्मसु प्रवृत्तिः इत्याशङ्कायाः समाधानप्रसङ्गेनेत्थमुक्तम् । यथा हि नित्ये कृते प्रत्यवायप्रागभावस्तिष्ठति तदभावे तदभावः एवम् प्रत्यवायाभावसत्त्वे दुःखप्रागभावसत्त्वम् तदभावे तदभावः ( दुःखरूपः ) इति योगक्षेमसाधारणकारणताया दुःखप्रागभावं प्रत्यपि सुवचत्वात् इति । अत्र योगे अप्राप्तप्राप्तौ क्षेमः सिद्धस्य रक्षणम् इत्यर्थोनुसंधेयः ( दि० गु० विधिनि० पृ० २२८ ) । २ वेदान्तिनस्तु अलभ्यलाभसहितं लब्धपरिरक्षणम् । यथा अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ( गीता० अ० ९ श्लो० २२ ) इत्यादी इत्याहुः । अत्रार्थे योगश्च क्षेमं
च इति समाहारद्वन्द्वो ज्ञेयः। योगजः-(संनिकर्षः ) योगाभ्यासजनितो धर्मविशेषः । स चादृष्टविशेषः।
अयं चालौकिके योगिप्रत्यक्षे कारणीभूतः अलौकिकसंनिकर्षविशेषः । स च युक्तयुञ्जानेति द्विविधयोगिभेदतो द्विविधः ( भा० ५० श्लो०६६) ( सि० च० )। तत्र युक्ताख्ययोगिनो योगजधर्मसंनिकर्षण वस्तुमात्रस्य अन्यात्मनाम् अतीन्द्रियाणामपि आकाशदिक्कालपरमाणुवायुमनसाम्
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org