________________
६७०
न्यायकोशः। संयोगविभागाभावः । दिगादीनां तु पृथग्गतिमत्त्वाभावात्परस्परेण संयोगविभागाभाव इति। त्वगिन्द्रियशरीरयोः पृथग्गतिमत्त्वं नास्ति । युतेष्वाश्रयेषु
समवायो नास्तीति परस्परेण संयोगः सिद्धः (प्रशस्त० गु० पृ० १९) । युष्मद्-संबोध्यचेतनः । अधिकं तु त्वम्शब्दार्थे दृश्यम् । यूपः-शास्त्रीयच्छेदनतक्षणादिक्रियाश्रयः ( जै० न्या० अ० ७ पा० ३ * अधि० ११ )। योगः-१ संबन्धः । २ [क] समुदायशब्दस्य अवयवशक्तिः ( त०
दी० ४ ) ( नील० ४ पृ० ३१ ) ( सि० च० ४।३१) । यथा पाचकादिपदेषु योगः । अत्र च पाचकादिपदात् पचति इति व्युत्पत्त्या पाककर्ता बुद्ध्यते इति बोध्यम् । अत्र योगबलं समाख्या इति मीमांसका वदन्ति ( वाच० )। [ख] वैयाकरणास्तु शास्त्रकल्पितावयवार्थमात्रबोधप्रयोजको योगः ( शक्तिः) । यथा पाचकादौ इत्याहुः ( ल० म० आकाङ्कादिवि० पृ० १२ )। ३ [क] चित्तवृत्तिनिरोधः इति योगिन आहुः ( पात० पा० १ सू० २)। [ख ] केशकर्मविपाकाशयपरिपन्थिचित्तवृत्तिनिरोधो योगः ( सर्व० सं० पृ० १३२ पात० ) अत्रेदं बोध्यम् । विषयेष्वलंप्रत्ययवत उदासीनस्य बहिरिन्द्रियेभ्यो व्यावृतं मनो यदा आत्ममात्रनिष्ठं भवति तदा तत्कर्मानुगुणप्रयत्नाभावात्कर्म मनसि नोत्पद्यते स्थिरतरं मनो भवति स एव योगः ( वै० उ० ५।२।१६ )। अथ वा आत्मस्थे मनसि षडङ्गयोगेन इन्द्रियादिकं परित्यज्य मनो यदा आत्ममात्र तिष्ठति तदा मनःकर्मणोनुत्पादः तदा मनो निश्चलं भवति । तदवस्थायां शरीरावच्छेदेन दुःखं न जायते । स आत्मना बाह्यव्यावृत्तमनसः संयोगो योग उच्यते । षडङ्गानि स्कन्दपुराणे उक्तानि यथा आसनं प्राणसंरोधः प्रत्याहारश्च धारणा। ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥ (वै० सू० ५।२।१६ ) (वै० वि० ) इति । यद्वा इन्द्रियाणि विषयेभ्यः प्रत्याहृत्येन्द्रियेभ्यो मनः प्रत्याहृत्य साक्षात्कर्तव्ये वस्तुनि मनःप्रणिधानं योगः ( नील० ) इति । स च योगो द्विविधः । राजयोगः हठयोगश्च । तत्र राजयोगः पतञ्जलिनोक्तः । हठयोगस्तु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org