________________
६६८
काशः।
न्यायकोशः। रूपवन्तः इत्यादौ । यथा वा यावन्तो मनुष्या मरणशीला इत्यादौ । अत्राद्ये घटत्वव्यापकरूपवन्तः इत्यन्वयबोधो जायते । अन्त्ये मनुष्यत्वव्यापकत्वं मरणशीलत्वे बोध्यते इति विज्ञेयम् । ३ व्यासज्यवृत्तिधर्मविशेषः । यथा सर्वे घटा रूपवन्त इत्यादौ सर्वशब्दप्रवृत्तिनिमित्तं घटनिष्ठं यावत्त्वम् । इदं च उद्देश्यतावच्छेदकघटत्वव्यापिका विधेयरूपव्याप्या च या पर्याप्तिः तादृशपर्याप्तिकं भवति इति विज्ञेयम् (ग० शक्ति० पृ० ९३ )। ४ साकल्यम् ( अशेषत्वम् )। ५ अवधित्वम् ।
६ मानत्वम् ( मर्यादात्वम् )। ७ अवधारणत्वम् ( अमरः )। यावद्रव्यभावित्वम्-स्वाश्रयनाशजन्यनाशप्रतियोगित्वम् ( दि० २२
आकाशनि० पृ० ८८ )। यथा घटादिवृत्तिरूपादेर्यावद्रव्यभावित्वम् । 'अत्र घटस्य नाशे तद्गतरूपस्यापि नाशः इत्यनुभवो मन्तव्यः । स्वपदार्थो रूपम् । तथाच स्वम् घटस्य रूपम् । तस्याश्रयो घटः । तस्य नाशः । तादृशनाशजन्यो नाशः रूपनाशः । तस्य प्रतियोगित्वं रूपे इति लक्षणसमन्वयः । शब्दज्ञानादीनां तु न तादृशम् यावद्रव्यभावित्वम् इति अतो नातिव्याप्तिः । तथा चोक्तम् अयावद्रव्यभावित्वेनैव शब्दादीनां वायुविशेषगुणत्वं नास्ति ( मु० १ आकाशनि० पृ० ८८ ) इति । युक्तः-१ यत्किचित्प्रतियोगिकसंबन्धानुयोगी। यथा भूतलं घटेन युक्त
मित्यादौ । २ उचितम् । यथा युक्तमुच्यते इत्यादौ । ३ योगशास्त्रज्ञास्तु योगाभ्यासवशात्सर्वदा सकलविषयकज्ञानवान् योगी ( भा० ५० श्लो० ६७ ) । अथवा प्रथमप्रत्त्यासत्त्या निरन्तरमखिलपदार्थज्ञानवान् इत्याहुः ( सि० च० ५ पृ० २३ ) अत्रेदं बोध्यम् । युक्तस्य योगजधर्मसहायेन मनसाकाशपरमाण्वादिनिखिलपदार्थगोचरं ज्ञानं सर्वदैव ध्यानाद्यभावेपि भवितुमर्हति (मु० १ पृ० १३३ ) ( प्रशस्त०
बुद्धिनि० पृ० ४३ ) इति । युक्तिः -१ साधकबाधकप्रमाणोपन्यासः (त० प्र० १) (म० प्र०
पृ० ३ )। २ अनुमानम् । तच्च साध्यसाधकलिङ्गज्ञानम् । न्यायः इति मीमांसका आहुः । अत्रोच्यते श्रुत्योर्विरोधे न्यायस्तु बलवानर्थनिर्णये।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org