________________
६६४
न्यायकोशः ।
यदा - १ यस्मिन्काले इत्यर्थः । यथा यदा मनः पुरीतति प्रविशति तदा सुषुप्तिः इत्यादौ । २ शाब्दिकास्तु यच्छब्देन इत्यर्थ इत्याहु: । यदि - १ पक्षान्तरम् । यथा अथ ज्ञानमात्रे त्वङ्मनः संयोगस्य यदि कारणत्वं तदा रासनचाक्षुषादिप्रत्यक्षकाले त्वाचप्रत्यक्षं स्यात् ( मु० १ पृ० ११५ ) इत्यादौ । २ संभावना । यथा यदि स्यादुपलभ्येतेत्येवं यत्र प्रसज्यते ( भा० प० श्लो० ६३ ) इत्यादौ संभावनाद्योतको यदिशब्दः । ३ गर्हा । ४ विकल्प: ( मेदिनी० ) । ५ असंदेहे संदेह - वचनम् ( श्रीधरः ) । यथा यद्येषोपरता देवी ( भाग ० १ | ३ | ३४ ) इत्यादी यदिशब्दस्यार्थः । यदृच्छा—१ स्वातन्त्र्यम् । २ स्वैरता । यथा यदृच्छालाभसंतुष्टः ( गीता ४।२२ ) इत्यादौ । अत्रार्थे प्रमाणम् स्वेच्छा यदृच्छा स्वच्छन्दः स्वैरता चेति ते समाः (केशवः ) इति । ३ भगवदिच्छा । यथा यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ( गीता० २।३२ ) इत्यादौ इति वेदान्तिन आहुः ।
I
1
यदृच्छाशब्दः – जातिगुणक्रियाद्यवाचकः संज्ञाशब्दः । यथा डित्थ इत्यादिशब्दः । तदुक्तं काव्यप्रकाशे डित्थादिशब्दानामन्त्यबुद्धिनिर्ब्राह्यं संहृतक्रमं स्वरूपं वक्रा यदृच्छया डित्थादिष्वर्थेषूपाधित्वेन निवेश्यते इति संज्ञारूपो यदृच्छात्मकः इति । गौः शुक्लश्वलो डित्थ इत्यादौ चतुष्टयी शब्दानां प्रवृत्तिः इति महाभाष्यकाराः ( काव्य० प्र० उ० २ पृ० १२ ) । अत्रोदाहरति असंपादयतः कंचिदर्थं जातिक्रियागुणैः । यदृच्छाशब्दवत्पुंसः संज्ञायै जन्म केवलम् ॥ इति । जात्यादिप्रवृत्तिनिमित्तशून्यः इच्छाप्रकल्पितः इत्यर्थः ( माघ० टी० स० २ श्लो० ४७ ) । यद्वा- १ बुद्धौ संक्षिप्तार्थविषयीकरणम् । २ पक्षान्तरम् । पूर्वकल्पशैथिल्यप्रयुक्तारुच्या कल्पान्तरबोधनम् इति यावत् । यथा यद्वाभ्युदययोग्यता ( भर्तृहरिः ) इत्यादौ |
यमः —— अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहाः यमाः इति ( सर्व ० सं० पृ०
१३८ पात ० ) ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org