________________
न्यायकोशः ।
I
६६३ च्छेदक वोश्चारक पुरुषोच्चरित स्वपूर्व पदोपस्थाप्यतावच्छेदकधर्मावच्छिन्नः । यथा चैत्रः समागतो यस्तत्रावलोकितः इत्यादौ । अत्र चैत्रादिपदेनाप्युपस्थितोर्थो यच्छब्देन बोध्यते । यथा वा साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके । उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः || इत्यादौ । अत्र तत्पदासत्त्वेपि न दोषः । पूर्वप्रक्रान्तस्यैव कृतशब्दोपस्थापितव्यापारस्याभेदेन मीलनान्वयितया यच्छब्देन बोधनात् । एवम् यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे । भावन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥ ( कुमार० स०१ श्लो० २ ) इत्यादावपि ( ग० शक्ति० पृ०११४ ) । २ यस्मात् इत्यर्थः । ३ शाब्दिकास्तु कृत्तद्धितसंज्ञकः प्रत्ययविशेषः । यथा देयम् दिश्यम् इत्यादी इत्याहु: । ४ ग । ५ अवधृतिश्च इि काव्यज्ञा आहुः ( मेदिनी ० ) ।
यत्नः - १ प्रयत्नशब्दवदस्यार्थोनुसंधेयः । २ आयासः इति काव्यज्ञा आहुः | ३ उद्योगः इति व्यवहारज्ञा वदन्ति ।
-
यथा- - १ येन प्रकारेण इत्यर्थः । २ सादृश्यम् । ३ योग्यता । ४ आनुरूप्यम् । ५ पदार्थानतिवृत्ति: ( सि० कौ० ) । यथार्थबुद्धिः- तद्वति तत्प्रकारकं ज्ञानम् । यथा घटे अयं घटः इति ज्ञानम् । इदं च लक्षणं स्मृत्यनुभवोभयसाधारणमपि भवति इति विज्ञेयम् । अत्र याथार्थ्यं च फलवत्प्रवृत्तिजननयोग्यत्वम् (त० कौ० ११०७ ) । तद्वति तदवगाहित्वं वा । सर्वांशे याथार्थ्यं तु स्वव्यधिकरणप्रकारावच्छिन्ना या या विषयता तत्तदनिरूपकत्वम् (ग० २ हेत्वा० सामा० ) । यथार्थवक्ता - ( अतः ) प्रकृतवाक्यार्थ विषयकयथार्थशाब्दबोधविषयकतात्पर्यवान् ( वाक्य ० ४ पृ० १९ ) । यथा आप्तवाक्यं प्रमाणशब्दः इत्यादी सत्यवतीसुतव्यासो गौतमकणादौ च यथार्थवतार: । शाब्दबोधे याथार्थ्यं च तद्वति तत्प्रकारकनिश्चयत्वमेवेति ज्ञेयम् । यथार्थानुभवः प्रमाशब्दवदस्यार्थोनुसंधेय : ( कु० ४।१ ) ( चि० )
( त० सं० ) ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org