________________
६६२
न्यायकोश। इति । यज्ञेन संस्कृतमुपवीतम् इति वा ( वाच० )। तत्स्वरूपमुक्तं यथा ऊर्ध्वं तु त्रिवृतं सूत्रं सधवानिर्मितं शनैः । तन्तुत्रयमधोवृत्तं यज्ञसूत्रं विदुर्बुधाः ॥ ( कालिकापु० अ० ४ ) इति । उपवीतमाह गोभिल: यज्ञोपवीतं कुरुते सूत्रं वस्त्रं वा अपि वा कुशरजुमेव इति । मनुरपि कार्पासमुपवीतं स्याद्विपस्योर्ध्ववृतं त्रिवृत् । शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥ (मनु० अ० २ श्लो० ४४ ) इति । नवतन्तुत्वं व्यक्तमाह देवलः यज्ञोपवीतं कुर्वीत सूत्राणि नव तन्तवः। एकेन प्रन्थिना तन्तुर्द्विगुणस्त्रिगुणोथ वा ॥ ( मनु० टी० कुल्लू० २।४४ ) इति । यज्ञोपवीतधारणार्थ मन्त्रस्तु यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुश्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः॥
( बौधायनः ) इति। यज्ञायज्ञीयम्-यज्ञायज्ञ इत्यनेन शब्देन युक्तायामृच्युत्पन्नं साम यज्ञा
यज्ञीयम् ( जै० न्या० अ० ९ पा० १ अधि० १८ )। यज्ञोपवीतम्-यज्ञसूत्रशब्दवदस्यार्थीनुसंधेयः । यत्-१ बुद्धिविशेषविषयः । अत्रार्थे यच्छब्दश्च तच्छब्दार्थनित्यापेक्षी ।
उत्तरवाक्यस्थस्तु न तदपेक्षी इति सामान्यतो विवेकः ( काव्यप्र० उ०७)। अत्र विशेषः यत्तच्छब्दार्थयोरन्वये च न समानविभक्तेस्तत्रता इत्याकरे द्रष्टव्यः । बुद्धिविशेषविषयश्च क्वचित् तत्पदप्रतिपाद्यतया वक्तबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नः । यथा यो यो धूमवान् स वह्निमान् इत्यादौ यच्छब्दार्थः । अत्र तत्पदार्थस्तु स्वप्रयोजकबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नः (ग० श० टी० पृ० ११३ ) । वस्तुतस्तु स्वपूर्वपदप्रतिपाद्यतया बुद्धिविषयतावच्छेदकधर्मावच्छिन्ने यत्पदस्य शक्तिः कल्प्यते। अतो न यत्पदशक्तिग्रहस्तत्पदशक्तिग्रहाधीनः इत्यन्योन्याश्रयः । इयं च व्युत्पत्तिः प्रक्रम्यमाणपरामर्शकयच्छब्दस्य द्रष्टव्या (ग० शक्ति० टी० पृ० ११३ )। यच्छब्दस्य स्वोत्तरप्रयोक्तपदोपस्थापितवाचीत्यर्थः इत्यपि तत्रैवोक्तम् । शाब्दिकास्तु तच्छब्दप्रतिपाद्यतया वक्तृबुद्धिविषय उद्देश्यो यत्पदार्थ इत्याहुः । कचित् स्वप्रयोजकबुद्धिविषयताव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org