________________
६६१
मायकोशः। प्रभृतिभिः समिद्भिः सुनुवोलूखलमुसलकुठारखनित्रयूपदारुदर्भचर्मग्रावपवित्रभाजनादिभिर्द्रव्योपकरणैः उद्गातृहोत्रध्वर्युब्रह्मादिभिर्ऋत्विग्भिः काम्यनैमित्तिकानां पक्षादिपूर्वकाणां यथोक्तदक्षिणानां समापनं यजनम्
इति ( श्रा० वि० )। यजुः-[क] वृत्तगीतिवर्जितत्वेन प्रश्लिष्टपठिता मत्रा यजूंषि ( जै० न्या० अ० २ पा० १ अधि० १२ )। शेषे यजुःशब्दः ( जै० सू० २।११३५ ) इति । यत्र वाक्ये अर्थवशेन छन्दोविशेषवशेन पादव्यवस्था सा ऋक् । तत्रैव गाने सति सामोच्यते एतदन्यद्यजुः-शब्देनोच्यते। [ख] यजूंषि वा तद्रूपत्वात् (जै० सू० २।१।३८) इति । अस्यार्थः । निगदा यजूंषि । तद्रूपत्वात् यजुर्लक्षणसत्त्वात् ( जै० सू० वृ०
२।१।३८ ) इति । यज्ञः-१ यागशब्दवदस्यार्थीनुसंधेयः । २ ज्ञानविशेषः । ३ क्रियाविशेषो
वा । स च यागः सात्त्विकराजसतामसभेदेन त्रिविधः । तदुक्तं गीतायाम् (१) अफलाकाटिभिर्यज्ञो विधिदृष्टो य इज्यते। यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ (२) अभिसंधाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ।। ( ३ ) विधिहीनमसृष्टान्नं मत्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ।। (गीता अ० १७ श्लो० ११-१३ ) इति । यज्ञो नानाविधः द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ ( गीता अ० ४ श्लो० २८) इति । गृहस्थकर्तव्याः पश्च महायज्ञा यथा [क] अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवो बलिौतो नृयज्ञोतिथिपूजनम् ॥ ( गारुड० अ० ११५ ) इति । [ख] देवयज्ञो भूतयज्ञः पितृयज्ञस्तथैव च । ब्रह्मयज्ञो नृयज्ञश्च पश्च यज्ञाः प्रकीर्तिताः ॥ तत्र च होमो दैवो बलिर्भूतः पित्र्यः पिण्डक्रिया स्मृतः। स्वाध्यायो ब्रह्मयज्ञश्च नृयज्ञोतिथिपूजनम् ॥ (शङ्खस्मृतिः) इति । यज्ञसूत्रम् --उपनयनसंस्कारेण पवित्रीकृतः सूत्रविशेषः । स च द्विजैर्धार्यो धर्मार्थम्। अत्र व्युत्पत्तिः यज्ञार्थं योग्यं संस्कृतं वा सूत्रम् ( शाक० त० )
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org