________________
६६०
न्यायकोशः।
यकृत्-दक्षिणपार्श्वस्थितो मांसविशेषः ( संगीतर० पृ० १९)। यङ्—(धात्वंशः प्रत्ययः) १ [क] पौनःपुन्यम् । यथा पापच्यते इत्यादौ यर्थः । अयं धातुप्रकृतिकः प्रत्ययो बोध्यः । पौनःपुन्यं च प्रकृतधात्वर्थजातीयक्रियोत्तरतादृशक्रियानन्तर्यरूपं प्रकृत्यर्थे विशेषणत्वेनान्वेति। तेन पाकोत्तरपाकानन्तर्यवत्पाककर्ता इत्येवं तत्र वाक्यार्थः । द्विःपक्तरि पुनः पक्तृत्वेपि न निरुक्तं पुनः पुनः पक्तत्वम् । अतो न तत्र पापच्यते इति प्रयोगः ( श० प्र० श्लो० १०८ टी० पृ० १९३ )। [ख] इदानींतनप्रकृत्यर्थसजातीयक्रियान्तरध्वंसकालीनत्वे सति वर्तमानादिकृतिविषयत्वम् । यथा पापच्यते इत्यादौ । अत्र इदानींतनत्वं च स्थूलकालमादायान्वेति इति विज्ञेयम् ( तर्का० ४ पृ० ११)। अत्रायं विवेकः । सत्यन्तदलमेव यङा प्रत्याय्यते । विशेष्यदलं त्वाख्यातेन बोध्यते । अतो यङो न विशिष्टवाचकत्वम् इति । २ कौटिल्यम् । यथा जङ्गम्यते चङ्गम्यते इत्यादौ यङोर्थः । अत्र गत्यर्थात् धातो: कौटिल्य एव यङ् विहितः । तेन कुटिलगतिमान् इत्येवं तत्र बोधः । शेषं पूर्ववत् । ३ निन्दितत्वम् । यथा लोलुप्यते चञ्चर्यते जञ्जप्यते दन्दश्यते जेगिल्यते इत्यादौ निन्दितत्वं यङोर्थः । अत्र लुपसदचर० ( पाणि० सू० ३।१।२४ ) इति सूत्रेण गर्दायां यङ् विहितः । तेन
गर्हितं लुम्पति चरति इत्यादिकोर्थः । यज्-(धातुः ) देवतोद्देश्यकद्रव्यत्यागरूपा क्रिया तदर्थः ( जै० सू०
वृ० अ० ४ पा० २ सू० २७ )। यजति:----यागविशेषः । यथा यजतिषु येयजामहं करोति नानुयाजेषु ( श्रुतिः ) इत्यादौ । तल्लक्षणम् तिष्ठद्धोमा वषट्कारप्रदाना याज्यापुरोनुवाक्यावन्तो यजतयः ( कात्या० श्री० सू० ११२।६) इति ।
अत्र कर्कभाष्यं दृश्यम् । यजनम्यागवदस्यार्थीनुसंधेयः। तत्स्वरूपमुक्तं देवलेन पशुक्षीराज्य
पुरोडाशसोमौषधिचरुप्रभृतिभिर्हविर्भिः खदिरपलाशाश्वत्थन्यग्रोधोदुम्बर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org