SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। ६५७ मूर्छनास्त्वेकविंशतिः । तालास्त्वेकोनपञ्चाशदित्येतत्स्वरमण्डलम् ।। इति (पञ्चतत्रे)। ४ काव्यज्ञास्तु प्रसरणम् । यथा शिलोच्चये मूर्छति मारुतस्य ( रघु० २।३४ ) इत्यादी इत्याहुः । मूर्छितः-(पारदः ) नानावर्णो भवेत्सूतो विहाय घनचापलम् । लक्षणं दृश्यते यस्य मूर्छितं तं वदन्ति हि॥(सर्व० सं० पृ० २०४ रसेश्व० )। मृतगुणत्वम्-[क] अमूर्तगुणवृत्तिः संस्कारत्वान्या गुणत्वव्याप्या च या जाति: संख्यात्व बुद्धित्वादिः तच्छून्यगुणत्वम् । अत्र शून्यान्तेन संख्यादेः बुद्ध्यादेश्च व्युदासः । वेगस्थितिस्थापकोपसंग्रहाय संस्कारत्वान्य इति विशेषणं दत्तम् (दि० गु० पृ० १९२ )। [ख] अमूर्तावृत्तिगुणत्वम् । अमूर्तावृत्तिगुणास्तु रूपम् रस: गन्धः स्पर्शः परत्वम् अपरत्वम् गुरुत्वम् द्रवत्वम् स्नेहः वेगः स्थितिस्थापकश्चेति ( भा० ५० गु० श्लो० ८७-८८ )। अथवा [ग] मूर्तत्वव्याप्यतावच्छेदकगुणवृत्तिजातिमत्त्वम् । अत्रावच्छेदकान्तेन संख्यात्वादेः वृत्तित्वान्तेन कर्मत्वादेः व्युदासः ( दि० गु० पृ० १९२ )। [घ] केचित्तु विभ्ववृत्ति संख्यादिपश्चकभिन्नगुणत्वम् इत्याहुः ( ल० व०)। मूर्तम्- (द्रव्यम् ) १ क्रियावद्रव्यम् । यथा वायुमूर्तः । मूर्तानि पञ्च पृथिवी आपः तेजः वायुः मनश्चेति ( न्या० बो० १ पृ० ३ ) ( वाक्य० १ पृ० ५) (भा० ५० श्लो० २५ ) । लक्षणं तु मूर्तत्वमेव । तच्च अपकृष्टपरिमाणवत्त्वम् ( मू० १ पृ० ५७ )। अविभुवृत्तिपरिमाणवत्त्वमित्यर्थः । तेन परमाणौ नाव्याप्तिः । अथवा परिच्छिन्नपरिमाणवत्त्वम् ( त० दी० १ )। वेगवत्त्वं क्रियावत्त्वं वा ( न्या० बो० १ पृ० ३ ) ( वाक्य० १ पृ० ५ )। इयत्तावच्छिन्नपरिमाणयोगः इति प्राश्च आहुः। मूर्तत्वं जातिः इति नव्या आहुः (प० मा० )। सा च क्रियाजनकतावच्छेदकतया सिद्ध्यति इति ज्ञेयम् ( दि० १) । मूर्तद्रव्यमात्रवृत्तिगुणास्तु परत्वम् अपरत्वम् परममहत्त्वभिन्नं परिमाणं चेति ( भा० ५० श्लो० २५ ) । अत्रेदं बोध्यम् । निबिडानामेव मूर्तानां समानदेशत्वं विरुद्धम् इति नियमः । तेन चक्षुरा८ न्या. को... Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy