________________
६५६
न्यायकोशः। मुख्यत्वम् । फलनिष्ठं मुख्यत्वं च प्रवृत्त्युद्देश्यत्वम् (राम० )। यथा सुखसंवेदनरूपफलस्य मुख्यत्वम् । विशेष्यतानिष्ठं मुख्यत्वं च प्रकारतान्यत्वम् ( त० प्र० २) इति विज्ञेयम् । यथा घटवद्भूतलम् इति ज्ञाने
भूतलनिष्ठविशेष्यताया मुख्यत्वम् । एवम् अन्यनिष्ठान्यपि मुख्यत्वानि . स्वयमूह्यानि। मुनिः-सप्तमी ( पु० चि० पृ० ३७ )। मूढम्- ( चित्तम् ) तमःसमुद्रे मग्नं निद्रावृत्तिमच्चित्तं मूढमिति गीयते
(सर्व० सं० पृ० ३५४ पात० )। मूर्छनम्-१ समानजात्योः समानजवयोर्वा वाय्वोविरुद्ध दिक्क्रिययोः
संनिपातः ( संयोगविशेषः ) ( प्रशस्त : वायुनि० पृ० १८ )। यथा वायोर्वायुसंमूर्छनं नानात्वलिङ्गम् ( वै० २।१।१४ ) इत्यादी । संमूर्छनं तृणतूलादीनामूर्ध्वगमनानुकूलं तत्संपादकतयानुमीयमानं वायुनानात्वे लिङ्गम् इति सूत्रार्थः (वै० वि० २।१।१४ )। २ वेदान्तिनस्तु मोहः । स च जाग्रत्स्वप्नसुषुप्त्येतत्रयावस्थातिरिक्तो बाह्येन्द्रियव्यापारशून्यावस्थाविशेषः। यथा ॐ मुग्धेर्धसंपत्तिः परिशेषात् ॐ (ब्र० सू० ३।२।१०) इत्यादौ मोहो मूर्छा इत्याहुः। मूर्छाभवने कारणमुच्यते भिषग्भिः । क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः। वेगाघातादभिघाताद्धीनसत्त्वस्य वा पुनः॥ करणायतनेषूमा बाह्येष्वाभ्यन्तरेषु च । निविशन्ते यदा दोषास्तदा मूर्छन्ति मानवाः ॥ (भावप्र०) इति । अस्या अवस्थाया जायदाद्यवस्थात्रयातिरिक्तत्वेन तुरीयत्वे मानं तु दुःखानुसंधानमेव इति । मोहावस्थायां जीवस्य परमेश्वरेर्धप्राप्तिः इति च विज्ञेयम् ( मध्व० भा० ३।२।१०)। ३ गानाङ्गभूतः स्वरारोहावरोहक्रमविशेषः। यथा स्फुटीभवद्रामविशेषमूर्छनाम् (माघ० स० १ श्लो० १०) इत्यादौ इति गायका वदन्ति । अत्र मूर्छनालक्षणमुच्यते । स्वरः संमूर्छितो यत्र रागतां प्रतिपद्यते । मूर्छनामिति तां प्राहुः कवयो प्रामसंभवाम् ॥ इति ( वाच० )। क्रमात्स्वराणां सप्तानामारोहश्चावरोहणम् । सा मूर्छत्युच्यते ग्रामस्था एताः सप्त सप्त च ॥ इति । ग्रामत्रयेपि प्रत्येकं सप्त सप्त मूर्छना इत्येकविंशतिर्मूर्छना भवन्ति (माघ-टी० स० १ श्लो० १०)। अन्यच्च सप्त स्वरात्रयो ग्रामा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org