________________
न्यायकोशः। अधीते वा मीमांसकः इति । क्रमादिभ्यो वुन् ( पा० ४।२।६१ ) इत्यनेन वुन् । [ख] कर्मैव वेदमुख्यतात्पर्यम् इति यो मन्यते सः । यथा महर्षिर्जेमिनिः। मीमांसकमते कमैवेश्वरः। तदन्यश्चेतनरूपो भगवान् नास्ति । स्वर्गादिकमेव पुरुषार्थः । मन्त्रमयी मन्त्रगतलिङ्गलिङ्गित अग्नीन्द्रादिर्वा देवता। अर्थवादो न प्रमाणम् इति । तत्र मीमांसकैकदेशिनस्तु यथा भूपालः परिचारकृतकर्मणः फलदाता तथा वेदोक्तकृतकर्मणः फलदातेश्वर एव इति समूचिरे ( सि०.च० १ पृ० ११ )। अत्रेदं ज्ञेयम् अर्वाचीना मीमांसकाश्च त्रयः (१) प्रभाकरापरनामा गुरुः (२) भट्टः तुतातः कुमारिलो वा (३) मुरारिमिश्रश्च इति। वेदे भागत्रयम् कर्मकाण्डः उपासनाकाण्डः ज्ञानकाण्डश्चेति । तत्र कर्मकाण्डे द्वादशाध्यायात्मकं सूत्रग्रन्थं प्रणिनाय जैमिनिः । कर्मकाण्डोपयोगस्तु ज्ञानयोगेन सांख्यानां कर्मयोगेण योगिनाम् इति भगवद्गीतया तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन तपसा अनाशकेन इति श्रुत्या च कर्मणां विविदिषाहेतुत्वोक्तेः विविदिषायामेव कर्मकाण्डप्रतिपाद्यकर्मण उपयोगः इति केचिद्वदन्ति ( वाच० )। वयं तु कर्मणा ज्ञानमातनोति इत्यादिवचननिचयेन कर्मणोप्यपूर्वद्वारा भगवज्ज्ञानतत्प्रसादप्राप्तिहेतुत्वमस्ति इति बाहुल्येन तदुपयोगः इति भगवदपरोक्षज्ञानानन्तरमपि कृतात्कर्मणो मोक्षफले सौकर्यविशेषो भवति इति कर्मणो बहूपयोगः इति च मन्यामहे । २ सिद्धान्तकारकः । अत्रार्थे मीमांसकशब्दे व्याकरणम् मानविचारे । स्वार्थे सन् । ण्वुल् इति ज्ञेयम । मीमांसा—१ लाघवज्ञानात्मकस्तर्कः ( दि० ४ पृ० १८९)। मीमांसा
शब्दे व्याकरणम् मानविचारे । स्वार्थे सन् । अप्रत्ययात् (पा० ३।३।१०२ ) इत्यनेन खियामप्रत्ययः इति ज्ञेयम् । २ विचारपूर्वकतत्त्वनिर्णयः । यथा धर्ममीमांसा ब्रह्ममीमांसा इत्यादौ वेदार्थस्य मीमांसा। विचारः इत्यपि केचिद्वदन्ति । ३ तादृशतत्त्वनिर्णयप्रतिपादको ग्रन्थ
विशेषः ( शास्त्रविशेषः )। स च कर्मब्रह्मविषयभेदेन द्विविधः । तत्राद्यः .. कर्मविषयकसंशयनिवारको ग्रन्थो महर्षिजैमिनिना प्रणीतः । स च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org