________________
न्यायकोशः। विषयनिष्ठसामान्यगुणत्वं वा ( वै० उ० ७११८ )। अपकर्षानाश्रयपरिमाणत्वं वा । महत्त्वं द्विविधम् अवान्तरमहत्त्वम् परममहत्त्वं च । तत्राद्यम् त्रसरेणुमारभ्य महावयविपर्यन्तद्रव्येषु वर्तते । षड्विधे द्रव्यप्रत्यक्षे कारणम् अनित्यं च । इदं तु नातीन्द्रियम् । किं तु प्रत्यक्षविषयो भवति । तथा च सूत्रम् अणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते (वै० ७।११८) इति । तस्य कारणत्वं चोक्तम् द्रव्यप्रत्यक्षतायां रूपवत् परिमाणमपि कारणम् । न हि महत्त्वमन्तरेण द्रव्यं प्रत्यक्षं भवति ( वै० उ० १।८ । द्वितीयं तु विभुचतुष्टये वर्तते। अतीन्द्रियम् नित्यं च । संयोगविशेष एव महत्त्वम् इति नव्यनास्तिका आहुः (प० मा० )। हिरण्यगर्भस्य लिङ्गशरीरधर्मः इति वेदान्तिन आहुः । महाकालः-१ ( कालः) [क] अनवच्छिन्नः कालः । [ख ] उपाध्यविशिष्टकालः । यथा कालो घटवान् कालपरिमाणादित्यादौ हेत्वधिकरणस्य महाकालस्य जगदाधारतया घटाधारत्वेपि महाकाले महाकालभेदाभावेन महाकालान्यत्वविशिष्टघटानाधारत्वान्महाकालान्यत्वविशिष्टघटाभावोपि प्रतियोगिव्यधिकरणो भवति (मु० २ पृ० १४५ व्याप्तिलक्षणे ) इत्यादौ महाकालः । [ग] अखण्डकालः। २ शिवः
इति पौराणिका आहुः । ३ भैरवविशेषश्च इति तत्रज्ञा आहुः । महाजया-शुक्लपक्षे तु सप्तम्यां यदा संक्रमते रविः । महाजया तदा
स्याद्धि सप्तमी भास्करप्रिया ॥ ( पु० चि० पृ० १०५ )। महानन्दा-माघमासे तु या शुक्ला नवमी लोकपूजिता । महानन्देति सा
प्रोक्ता सदानन्दकरी नृणाम् ॥ ( पु० चि० पृ० १४२ )। महानवमी-अश्वयुक्छुक्लपक्षस्य अष्टमी मूलसंयुता । सा महानवमी नाम
त्रैलोक्येपि सुदुर्लभा । ( पु० चि० पृ० ५९ )। महापुराणम्-व्यासकृतः पुराणविशेषः । यथा श्रीमद्भागवतम् । तल्लक्षणं
च सृष्टिश्चापि विसृष्टिश्च स्थितिस्तेषां च पालनम् । कर्मणां वासना वार्ता मनूनां च क्रमेण च ॥ वर्णनं प्रलयानां च मोक्षस्य च निरूपणम् । ८२ न्या० को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org