________________
६५०
न्यायकोशः
1
उत्कीर्तनं हरेरेव देवानां च पृथक् पृथक् ।। महापुराणं विज्ञेयमेकादशकलक्षणम् (ब्रह्मवै० ज० अ० १३२ ) इति । महाप्रलयः -- ( प्रलय: ) [क] चरमसंयोगनाशः ( ग० सिद्धा० ) । [ख] सर्वभावकार्यध्वंसः (त० दी ० १ पृ० १० ) । केचित्तु पौराणिकादयः जन्यभावानधिकरणकालः इत्याहुः । तस्योत्पत्तिनियमस्तु महान् प्रलयो ब्रह्मणः स्वमानेन शतवर्षावसाने जायते इति । अत्रेदं बोध्यम् । महाप्रलयानन्तरं न सृष्टिः । सर्वमुक्तौ सर्वोत्पत्तिनिमित्तस्यादृष्टस्यापायात् । सर्वभोक्त्रपवृक्तौ प्रयोजनाभावाश्च । न हि बीजप्रयोजनाभ्यां विना कार्योत्पत्तिः इति ( प० मा० ) । महाप्रलयो न प्रमाणसिद्धः इति नव्यनैयायिका आहुः । अत्राधिकं तु प्रलयशब्दे द्रष्टव्यम् । महामाघी – मेषराशौ यदा सौरिः सिंहे चन्द्रबृहस्पती । भास्करः श्रवण स्यान्महामाघी च सा स्मृता ।। ( पु० चि० पृ० ३१४ ) । महालयः — भाद्रपदापरपक्ष: ( पु० चि० पृ० २१ ) । महावाक्यम् — १ [क] स्वघटकानेकनामलभ्यतादृशार्थबोधकं वाक्यम् ।
अत्र तादृशार्थबोधस्तु तत्तदर्थावच्छिन्नविषयताशाली इति बोध्यम् (श० प्र० श्लो० ३० टी० पृ० ४४ ) । यथा महावाक्यार्थ बुद्धिं प्रति खण्डवाक्यार्थज्ञानं कारणम् इति कार्यकारणभावे वक्तव्ये पञ्चावयवोपेतन्यायवाक्यम् । अत्र प्रतिज्ञादिघटितपञ्चावयवोपेतमहावाक्यजनितसमुदितार्थविषयकशाब्दबुद्धी प्रतिज्ञादिरूपावान्तरवाक्यार्थज्ञानं कारणम् इति कार्यकारणभावों द्रष्टव्यः । अत्रोच्यते भर्तृहरिणा स्वार्थबोधे समाप्तानामङ्गाङ्गित्वव्यपेक्षया । वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते || ( वाक्यपदीये ) इति । [ख] परस्परसंबद्धार्थकं वाक्यसमुदायरूपमेकवाक्यम् । यथा मीमांसकानां नये दर्शपूर्णमासाभ्यां यजेत ज्योतिष्टोमेन स्वर्गकामो यजेत इत्यादिप्रधानवाक्यस्य गुणविधिना सहैकवाक्यत्वम् । २ अखण्डार्थबोधकम् । यथा मायावाद्यद्वैतमते तत्त्वमसि ब्रह्माहमस्मि इत्यादीनि द्वादश महावाक्यानि । साहित्यशास्त्रज्ञास्तु वाक्योच्चयो महावाक्यम् । यथा : रामायण महाभारतरघुवंशादि (सा० द० उ० २ श्लो० ७ ) इत्याहुः ।
1
Jain Education International
1
For Personal & Private Use Only
www.jainelibrary.org