________________
न्यायकोशः ।
६४७
(वै० ६ |२| १५ ) । [ख] प्राणध्वंसः । [ग] चरमप्राणशरीरसंयोगध्वंसः (गौ० वृ० १|१|१९ ) ( नील० पृ० ४२ ) ( दि० १ पृ० २० ) ( बै० वि० ६।२।१५) । प्राणशरीरसंयोगे चरमत्वं च स्वसजातीयशरीरवृत्तिप्राणसंयोगप्रागभावानधिकरणत्वम् (राम ० १ पृ० २० ) । [घ] शरीरमनोविभागः (वै० उ० ६।२।१५ ) । यथा न जायते म्रियते वा कदाचित् ( गीता० २।२० ) इत्यादौ । उपात्तानां जातिविशिष्टदेहेन्द्रियमनोहंकार बुद्धिवेदनानां परित्यागो मरणम् इति सांख्या आहुः (सांख्य० कौ० ) । स्कन्धनाशो मरणम् इति बौद्ध आहुः । केचित्तु देहात्मनोविच्छेदः प्राणवायोरुत्क्रमणरूपो व्यापारविशेषो वा मरणम् इत्याहुः ।
1
मर्यादा - १ [क] सीमा । सा द्विविधा कालरूपा देशरूपा च । तत्र
कालरूपा यथा आरभ्य तस्यां दशमीं तु यावत् प्रपूजयेत्पर्वतराजपुत्रीम् इत्यादौ यावदर्थो मर्यादा । अत्र यावच्छब्देन पूजारूपक्रियायां शुक्लदशमीनिष्ठतादृशसी मात्वनिरूपकत्वं प्रत्याय्यते । तावतैवार्थतः शुक्लदशम्यां मर्यादात्वं लभ्यते । अत्र च प्रागभाव एव यावत्पदार्थः । द्वितीयार्थः प्रतियोगित्वम् अनुयोगित्वं वा । तत्र तत्प्रकृत्यर्थदशम्या अन्वयः । तावता दशमीप्रतियोगिक प्रागभावलाभः । तस्य स्वप्रतियोग्यवृत्तित्वविशिष्टव्यापकतासंबन्धेन पूजारूपसमभिव्याहृत क्रियायामन्वय: ( ग० व्यु० का० २ ख० २ पृ० ७५ ) । देशरूपा मर्यादा यथा काशीतः कौशिकीं यावद्याति इत्यादौ यावदर्थो मर्यादा । अत्र यावत्पदेन च कौशिक्यनधिकरणकत्वे सति काशी पूर्व कौशिकी पश्चिम देशव्यापकत्वं गमने प्रत्याय्यते । तत्र द्वितीयार्थोवधित्वम् अवधिमत्त्वं वा । तस्य च प्रतीचीस्वादान्वयः । निष्कर्षः पूर्ववत्स्वयमूहनीय: ( ग० व्यु० का० २ ख० २ पृ० ७६ ) । [ ख] वैयाकरणास्तु स्थित्यनतिक्रमः । मर्यादा द्विविधा कालरूपा देशरूपा च । तत्राद्यां कालरूपा यथा आमुक्तेः संसारः इत्यादावाङोर्थः । अत्र मुक्तिपदं तत्कालपरम् । मर्यादामर्यादिभाव संबन्ध आयोत्यः पञ्चम्यर्थः । एवं च मुक्तिमर्यादकः संसारः इति
1
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org