________________
न्यायकोशः। द्रष्टव्यम् । तथा मनो न प्रत्यक्षम् । अपि तु अनुमेयमेव । तथाहि । सुखदुःखोपलब्धयश्चक्षुरादिव्यतिरिक्तकरणसाध्याः असत्स्वपि चक्षुरादिषु जायमानत्वात् घटवत् इति । यच्च सुखाद्युपलब्धिकारणम् तन्मनः ( त० भा० प्रमेयनि० पृ० ३२ )। अथवा सत्यप्यात्मेन्द्रियार्थसांनिध्ये ज्ञानसुखादीनामभूत्वोत्पत्तिदर्शनात् कारणान्तरमनुमीयते । श्रोत्राद्यव्यापारे स्मृत्युत्पत्तिदर्शनात् बाह्येन्द्रियैरगृहीतसुखादिग्राहकान्तराभावाञ्चति ( प्रशस्त० मनोनि० पृ० २३ )। आर्हतास्तु भौतिका एव परमाणवः अणवो वा मनांसि इत्याहुः । वायुरेव मनः इत्यपि केचिदाहुः (गौ० वृ० ३।१४०)। नव्यास्तु अनुद्भूतविशेषगुणवदसमवेतभूतमेव मन इत्याहुः ( राम० १ पृ० ११८ )। मनो विभु इति मीमांसका आहुः। तन्मते मनसो विभुत्वे प्रमाणमनुमानम् । तच्च मनो विभु निस्पर्शद्रव्यत्वात् आकाशवत् इति । जातेनियतसंस्थानव्यङ्गयत्वात् मनसि च संस्थानाभावान्मनस्त्वं न जातिः । किंतु मनस्त्वं च आत्मान्यत्वे सति ज्ञानासमवायिकारणसंयोगाश्रयत्वम् (न्या० म० १११४ )। अथवा मनो विभु विशेषगुणशून्यद्रव्यत्वात्कालवंत इति । यद्वा मनो विभु ज्ञानासमवायिकारणसंयोगाधारत्वात् आत्मवत् इति (वै० उ० ३।२।१)। मनो नेन्द्रियम् इति मायावादिनो. वेदान्तिनो वदन्ति । न्यायनये मनस्यष्टौ गुणास्तिष्ठन्ति संख्या अणुपरिमाणम् पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम् वेगश्चेति (वै० ३।२।२-३ ) ( प्रशस्त० मनोनि० पृ० २३ )(त० भा० ) (न्या० म०) (भा० प० ) (सि० च०)। तथा च मनसः क्रियावत्त्वान्मूर्तत्वम् गुणवत्त्वाव्यत्वम् प्रयत्नादृष्टपरिग्रहवशादाशुसंचारित्वम् (प्रशस्त० पृ० २३-२४ ) इति। मायावादिनस्तु संकल्पविकल्पात्मकवृत्तिमदन्तःकरणं मन इत्याहुः । तच्च तन्मते सुखदुःखादीनामाधारः । अत्र श्रुति प्रमाणयन्ति मायावादिनः कामः संकल्पो विचिकित्सा श्रद्धा अश्रद्धा धृतिरधृतिहींधीिरित्येतत्सर्वं मन एव ( बृ० उ० १।५।३ ) इति । न्यायमते तु तदाधार आत्मैव इति भेदः । २ मनःशिलानामको धातुविशेषः इति भिषज आहुः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org