________________
न्यायकोशः। वैशेषिके सिद्धम् । एवं प्रतितत्रसिद्धान्तोत्र द्रष्टव्यः ( त० भा० पृ० ४२-४३ ) । सुखादिप्रत्यक्षसाधनत्वेनापि मन इन्द्रियं सिद्ध्यति (न्या० वा पृ० ४१)। अत्रेदं बोध्यम् । मनः सर्वविषयकज्ञानजनकमपि बहिर्विषयकज्ञानजनने परतत्रम् । स्वेतरबहिर्विषयकज्ञानजनकसामग्रीसापेक्षम् इत्यर्थः । अबाह्यविषयकज्ञाने तु मनः स्वतन्त्रम् । अबाह्यानि तु आत्मा तद्योग्यगुणाः तदभावः तद्वत्तिजातिश्च इति ( न्या० म० १ पृ० ५ ) ( त० प्र० १ पृ० ३० )। तच्च मनः प्रत्यात्मनियतत्वादनन्तम् अणु नित्यम् अतीन्द्रियं चेति (त० सं० ) ( त० भा० प्रमे० पृ० ३२ )। अत्र समवेतभोगकारणत्वे सति असमवेतभोगकारणत्वं नियतत्वशब्दार्थः । द्वितीयार्थो निरूपितत्वम् । तस्य च समवेतत्वद्वयेन्वयः । पञ्चम्यर्थः प्रयुक्तत्वम् । तस्य चानन्तत्वेन्वयः । तथा च तत्तदात्मसमवेतभोगजनकत्वविशिष्टतत्तदात्मासमवेतभोगजनकत्वप्रयुक्तानन्तत्ववन्मनः इति वाक्यार्थः ( वाक्य० पृ० ७ )। तच्च प्रतिजीवं भिन्नम् ( त० कौ० ) प्रतिशरीरमेकैकमेव (वै० उ० ३।२।३ ) । अत्र प्रमाणम् प्रयत्नायौगपद्याज्ज्ञानायौगपद्याच्चैकम् (वै० ३।२।३ ) इति । प्रयत्नज्ञानायौगपद्यवचनात्प्रतिशरीरमेकत्वं सिद्धम् । अत एव पृथक्त्वम् ( प्रशस्त० )। मनसो विभुत्वाङ्गीकारे आत्मनो मनसा संयोगस्य ज्ञानकारणत्वानुपपत्तिः इति दूषणं बोध्यम् । इदमत्राकूतम् । आत्मा विभुः इति सिद्धान्तः । तथा च मनसोपि विभुत्वाङ्गीकारे विभुद्वयस्यापि संयोगापत्तिः । न च विभुद्वयसंयोगोस्तु इति वाच्यम् । तादृशसंयोगस्य सर्वदा सर्वत्र सत्त्वप्राप्तौ सुषुप्तिरेवानुपपन्ना स्यात् । अतो मनोण्वेव इत्यङ्गीकर्तव्यम् इति । तथा सुखादीनां पादे मे सुखम् शिरसि मे वेदना इति प्रादेशिकत्वनियमार्थ प्रादेशिकासमवायिकारणम् आत्ममनःसंयोगरूपमङ्गीकर्तव्यम् । शब्दादौ विभुकार्ये तथैवावधारणात् इति । योगशास्त्रबोधितप्रत्याहारान्यथानुपपत्त्या च मनोणुत्वसिद्धिः इति केचिदाहुः ( न्या० सि० दी० पृ० २१)। तथा मनो नित्यम् । तत्र प्रमाणं सूत्रम् तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते ( वै० ३।२।२) इति
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org