________________
६४२
न्यायकोशः। (प० मा०)। युगपज्ज्ञानानुत्पत्तिः मनसो लिङ्गम् (गो० १।११६ )। अत्र भाष्यम् । अनिन्द्रियजनिमित्ताः स्मृत्यादयः कारणान्तरनिमित्ता भवितुमर्हन्ति इति । युगपञ्च खलु घ्राणादीनां गन्धादीनां च संनिकर्षेषु सत्सु युगपद्भानानि नोत्पद्यन्ते । तेनानुमीयते अस्ति तत्तदिन्द्रियसंयोगि सहकारि निमित्तान्तरम् अव्यापि यस्यासंनिधेर्नोत्पद्यते ज्ञानम् संनिधेश्वोत्पद्यते इति । मनःसंयोगानपेक्षस्य हीन्द्रियार्थसंनिकर्षस्य ज्ञानहेतुत्वे युगपदुत्पद्येरन् ज्ञानानि (वात्स्या० १।१।१६) इति । एतस्यार्थं वृत्तिकार आह । युगपत् एककाले। एकात्मनि इति पूरणीयम् । ज्ञानानामनुत्पत्तिर्यतः स एव धर्मो ज्ञानकारणाणुत्वम् मनसो लिङ्गम् लक्षणम् ( गौ० वृ० १।१।१६ ) इति । अत्र विप्रतिपत्तिः । समयसौक्ष्म्याना.. कलनात्तत्र दीर्घशष्कुलीभक्षणादौ नानावधानादौ च योगपद्याभिमानो
भ्रम इति नैयायिकाः संगिरन्ते ( न्या० दी० पृ० २१ )। वेदान्तिनस्तु मनसः संकोचविकासशालित्वात् ज्ञानानां योगपद्यमयोगपद्यं चोपपद्यते इत्याहुः ( म० प्र० १ पृ० १४ ) । मनसो लक्षणं च स्पर्शरहितत्वे सति क्रियावत्त्वम् ( त० दी० )। वेगवत्प्राणपवनसंयोगाच्चलनक्रियोपपत्तिः इति केचिद्वदन्ति (न्या० सि० दी० पृ० ४१ )। अथवा मानसत्वावच्छिन्नकार्यतानिरूपितकारणत्वे सतीन्द्रियत्वम् ( वाक्य० पृ० ६)। यद्वा द्रव्यसमवायिकारणत्वरहिताणुसमवेतद्रव्यत्वापरजाति: ( सर्व० सं० पृ० २१९ औलू० )। मीमांसकास्तु आत्मान्यत्वे सति ज्ञानासमवायिकारणसंयोगाश्रयत्वम् इत्याहुः ( न्या० म० पृ० १४ )। [ख] मनस्त्वाभिसंबन्धवत् (त० भा० ) ( प्रशस्त० पृ० २३ ) (न्या० म० ) । [ग] मयि सुखम् इति सुखप्रत्यक्षस्यासाधारणं कारणम् (त० कौ० ) ( ता० र० श्लो० ३० )। अत्र मनसः प्रत्यक्षकरणत्वे आत्ममनःसंयोगो व्यापारो बोध्यः ( त० को०)। [घ] सुखाद्युपलब्धिसाधनमिन्द्रियम् ( गौ० वृ० १।१।१६ ) ( त० भा० अर्थ० पृ० ३१ ) ( भा० ५०) (त० सं० )। यथा सर्वार्थोपलब्धौ नेन्द्रियाणि प्रभवन्ति इति सर्वविषयमन्तःकरणं मनः (वात्स्या० १।१।९)। मनस इन्द्रियत्वमाह । नैयायिकस्य मन इन्द्रियम् । तच्च समानतत्रे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org