________________
मध्यवर्ती मध्यस्थः ।
न्यायकोशः ।
Jain Education International
६४१
- १ [क] वादिप्रतिवाद्युभयप्रयुक्तन्यायवाक्यद्वयजन्यविरुद्ध
कोटिद्वयोपस्थितिजन्यसाध्यादि संदेह प्रयोज्यै कतर सत्कोटिकानुमितिर्यस्य भवति सः । यथा हि पर्वतादौ वह्नयादिसाधने वादिना पर्वतो वह्निमान्धूमवत्त्वात् इत्यादिन्याये प्रयुक्ते प्रतिवादिना च पर्वतो न वह्निमान्पाषाणमयत्वात् इत्यादिवाक्ये प्रयुक्ते च सति मध्यस्थपुरुषस्य पर्वतो वह्निमान्न वा इति संशयानन्तरं परामर्शादिद्वारा पर्वतो वह्निमान् इत्यनुमितिर्भवतीति । [ख] वादिप्रतिवादिनोरन्ययोर्वा पक्षप्रतिपक्षयोर्वाक्यादिविषय विमर्शपूर्वकं तत्त्वनिर्णायकः । २ स्वार्थाविरोधेन परार्थसंपादकः । ३ पूर्वापरयोः पदार्थयोरन्तरालस्थः । ४ उदासीनः । यथा माध्यस्थ्यमिष्टेप्यवलम्बतेर्थे ( कुमार० स० १ श्लो० ५२ मल्लि० टी० ) इत्यादौ इति काव्यज्ञा आहुः ।
मध्याह्नः– (कालः ) १ त्रिधा विभक्तदिनस्य द्वितीयो भागः । २ पश्चधा विभक्तदिनस्य तृतीयो भागः । तदुक्तं दक्षस्मृतौ प्रातः कालो मुहूर्तांस्त्रीन् संगवस्तावदेव तु । मध्याह्नस्त्रिमुहूर्तं स्यात् इति ( वाच० ) ।
1
मन् - ( धातुः ) १ पूजायाम् । यथा देवतां मनुते । २ गर्वात्मकवृत्तौ । . यथा पण्डितमानी चैत्रः इति । ३ बोधे । यथा मनुते अमनिष्ट मेने इति । मन्यते अमंस्त मेने इति च । ४ धृतौ । यथा मनयति अममनत् इति । मन: - (द्रव्यम्) १ [क] निस्पर्शमणु ( न्या० म० १।१४ ) (वै० ७।१।२३ ) ( गौ० वृ० १।१।१६ ) । अत्र व्युत्पत्तिः मन्यते अनेन मनः इति । करणार्थे असुन् प्रत्ययः । तच्च मनः सर्वेन्द्रियप्रवर्तकम् आन्तरेन्द्रियम् स्वसंयोगेन बाह्येन्द्रियानुग्राहकम् अत एव सर्वोपलब्धिकारणम् ( त० भा० प्रमेयनि० पृ० ३२ ) । मनः सद्भावे प्रमाणमनुमानम् । तच्चानुमानम् सुखादिसाक्षात्कारः करणसाध्यः जन्य साक्षात्कार - त्वाच्चाक्षुषसाक्षात्कारवत् इति । आत्मेन्द्रियार्थसंनिकर्षे ज्ञानस्य भावो - भावश्च मनसो लिङ्गम् (वै० ३।२।१ ) | भावः अभावः इति पदच्छेदः । यत्संयोगव्यतिरेकात्सुषुप्तिकाले कार्यानुत्पादः तदेव मनः इति ८१ न्या० को •
For Personal & Private Use Only
www.jainelibrary.org