________________
न्यायकोशः। मतिः-१ बुद्धिः । यथा तच्छ्न्ये तन्मतिर्या स्यादप्रमा सा निरूपिता ( भा० ५० श्लो० १२८ ) इत्यादौ मतिशब्दार्थो बुद्धिः । २ इच्छा। ३ मतिकरौषधम् (गरु० अ० १९८ ) इति भिषज आहुः (वाच०)। ४ मननविशेषः । ज्ञानावरणक्षयोपशमे सतीन्द्रियमनसी पुरस्कृत्य
व्यापृतः सन्यथार्थं मनुते सा मतिः ( सर्व० सं० पृ० ६३ आई० ) मत्सरः- ( दोषः ) [क] स्वप्रयोजनप्रतिसंधानं विना पराभिमतनिवारणेच्छा । यथा राजकीयादुदपानान्नोदकं पेयम् इत्यादि । [ख] परगुणनिवारणेच्छा (गौ• वृ० ४।१।३ )। अत्रापि स्वप्रयोजनप्रतिसंधानं विना इति पूरणीयम् इति तु वयम् । [ग] अन्यशुभद्वेषः इति केचिदाहुः (वाच० )। [घ] अन्ये तु निन्दन्ति मां सदा लोका धिगस्तु मम जीवनम् । इत्यात्मनि भवेद्यस्तु धिक्कारः स च मत्सरः॥
इत्याहुः ( क्रियायोगसारे ) ( वाच० )। मदः-मद्यपानादिजन्यः अवस्थाविशेषः ( मिताक्षरा अ० २।२१४ )। मद्यम्-मदहेतुर्द्रवद्रव्यविशेषः । यथा सर्वं, मद्यमपेयम् ( आपस्तम्बसू०
१।५।१७।२१ ) इत्यादौ । मुख्यतो मद्यानि द्वादशविधानि । माध्वीकं पानसं द्राक्षं खार्जरं तालमैक्षवम् । मैरेयं माक्षिकं टाकं माधूकं नारिकेलजम् ॥ मुख्यमन्नविकारोत्यं मद्यानि द्वादशैव तु इति । अत्र
व्युत्पत्तिः माद्यत्यनेन ( करणे यत् ) इति मद्यम् ।। मधुप्रतीकाः—यथा मधुन एकदेशोपि स्वदते तथा प्रत्येकमेव ताः सिद्धयः स्वदन्त इति मधुप्रतीकाः । ताश्च मनोजवित्वं विकरणभावः प्रधान
जयश्चेति त्रिविधाः ( सर्व० सं० पृ० ३८५ पातञ्ज० )। मधुभूमिकः-(योगी) ऋतंभरप्रज्ञः (सर्व० सं० पृ० ३८४ पातञ्ज०)। मधुमती- अभ्यासवैराग्यादिवशादपास्तरजस्तमोलेशसुखप्रकाशमयसत्त्व
भावनयानवद्यवैशारद्यविद्योतनरूपऋतंभरप्रज्ञा (सर्व० सं० पृ० ३८४
पातञ्ज० )। मध्यमसाहसम्-चत्वारिंशदधिकं पणपश्चशतम् ( मिताक्षरा व्य०
श्लो० १५३ )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org