________________
न्यायकोशः ।
1
जपतां जुह्वतां चैव विनिपातो न विद्यते ॥ इत्यनेन बोधितादर्शदर्शनादेः पृथगेव मङ्गलत्वम् । न तु विघ्ननिवर्तकतया । तत्र नानार्थतैव इति ( चि० १ मङ्ग० पृ० १०१-१०२ ) । [ग] अन्ये तु विशेषण - तादिसंबन्धावच्छिन्न पारिप्सितविन्नध्वंसत्वावच्छिन्नकारणतावत् इत्याहुः (म० वा० पृ० १० ) । [घ] अगईिताभीष्टावाप्तिर्मङ्गलम् इति योगशास्त्रज्ञा आहुः । अभीष्टं च सुखावाप्तिदुःखपरिहाररूपतयेष्टम् (सर्व० पृ० ३४१ पात ० ) । २ प्रशस्ताचरणं मङ्गलम् इति धर्मज्ञा वदन्ति । ३ हरिद्रा । ४ दूर्वा चेति काव्यज्ञा आहुः । पौराणिकमते मङ्गलद्रव्याण्यष्टौ लोकेस्मिन्मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः । हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः ।। ( मत्स्य सूक्ते प० ४२ ) ( वा० ) इति । मतानुज्ञा - ( निग्रहस्थानम् ) [क] स्वपक्षदोषाभ्युपगमात् परपक्षदोषप्रसङ्गो मतानुज्ञा ( गौ० ५।२।२१ ) । यः परेण चोदितं दोषं स्वपक्षेभ्युपगम्यानुद्धृत्य वदति भवत्पक्षे समानो दोषः इति स स्वपक्षे दोषाभ्युपगमात्परपक्षे दोषं प्रसृञ्जयन्परमतमनुजानातीति मतानुज्ञा नाम निग्रहस्थानमापद्यते ( वात्स्या० ५|२| २१ ) इति । [ ख ] स्वपक्षे दोषमनुद्धृत्य परपक्षे दोषाभिधानम् ( दि० १ ) ( नील० पृ० ४६ ) । 'यथा शब्दो नित्यः श्रावणत्वादित्य के ध्वनावनैकान्तिकत्वेन हेत्वाभासोयम् इत्युक्तौ शब्दः अनित्यः कृतकत्वादिति साधिते ध्वनेरपि पक्षत्वान्न दोष: इत्युक्तौ असिद्धत्वात् तवापि हेत्वाभासोयम् इत्युक्तौ सोयं मतानुज्ञया निगृहीतः स्यात् । अप्रतिषिद्धमनुमतं भवतीति स्वपक्षे दोषाभ्युपगमात् ( गौ० वृ० ५।२।२१ ) । [ग] स्वसिद्धान्ते परापादितदोषमनुद्धृत्य परस्यानिष्टबुद्ध्येष्टप्रसञ्जनम् । यथा केनचिदात्मनः पुरुषत्वाच्च रस्त्वमसि इत्युक्ते तत एव हेतोः त्वमपि चोरः इति प्रसञ्जनम् । नित्यः शब्दः कार्यत्वादित्युक्ते तत एव तोस्तवाप्यनित्यः स्यात् इत्यादीन्युदाहरणानि द्रष्टव्यानि । अत्र अनिष्टमेव परस्परं ब्रूयात् इति रहस्यम् ( सारसं० परि० ३ श्लो० १४८ टी० पृ० ११५ ) । [घ] पराभिमतस्यार्थस्य स्वप्रतिकूलस्य स्वयमेवाभ्यनुज्ञा ( स्वीकार: ) ( त० भा० पृ० ५१ ) ।
Jain Education International
For Personal & Private Use Only
६३९
www.jainelibrary.org