SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ ६३८ न्यायकोशः। विषयत्वं तु साध्यत्वेन फलान्यत्वेन वा विधेयतया कृतिविषयत्वम् ( म० ० पृ० १) (दि. १ मङ्ग० पृ० ५ ) । अलौकिकत्वं विधिमा न्तरा रागादिप्राप्तभिन्नत्वम् ( नील० १ पृ०२ )। अत्र सांख्यसूत्रम् मङ्गलाचरणं शिष्टाचारात् फलदर्शनान् श्रुतितश्चेति ( सां० सू० अ० ५ सू० १ ) इति । अत्रेदं बोध्यम् । मङ्गलं सफलमित्यनेनानुमानेन सफलत्वं सिद्ध्यत्समात्यादिरूपमुपस्थितफलमादायैव पर्यवस्यति ( म० प्र० १ ) (म० वा० १) । तथा ह्यनुमानम् मङ्गलं समाप्तिफलकम् समाप्त्यन्याफलकत्वे सति सफलत्वात् ( दि० १ मङ्गल० पृ० ४ ) इति । अनेनानुमानेन समाप्तिफलकत्वं सिद्ध्यत्कर्तव्यत्वं साधयितुं क्षमते । तथाहि मङ्गलं कर्तव्यम् समाप्तिफलकत्वात् इति ( नील० १ . मङ्ग० पृ०२)। मङ्गलं च त्रिविधम् । तदुक्तम् आशीर्वादनमस्कारवस्तुनिर्देशभेदतः । मङ्गलं त्रिविधं प्रोक्तं शास्त्रादीनां मुखादिषु ॥ (सि० च०) इति। अत्र वस्तुनिर्देशश्च पुण्यजनकशब्दनिबन्धः पुण्यकृत्स्तुतिप्रतिपादकशब्दो वा ( म० वा० पृ० १०)। [ख] नव्याः चिन्तामणिकृतस्तु विघ्नोत्सारणासाधारणं कारणम् (म० प्र० १ पृ० २ ) इत्याहुः । एतन्मते मङ्गलत्वं च तद्विघ्नोपशमहेतुत्वेन वेदविहितत्वम् ( चि० १ मङ्ग० पृ० १०१ )। तथा चैतन्मते मङ्गलस्य फलं विघ्नध्वंस एव । समाप्तिस्तु बुद्धिप्रतिभादिविघ्नसंसर्गाभावरूपस्वकारणकलापाद्भवति इति विज्ञेयम् ( नील० १ मङ्गल० पृ० २) (मु० १ मङ्गल० ) ( दि० १ मङ्ग० ८-९) । विघ्नोत्सारणेत्यादिलक्षणं च शशधरीये न्यायसिद्धान्तदीपे उक्तम् । तदर्थश्च समाप्तिप्रतिबन्धकदुरितविशेषो विघ्नस्तस्योत्सारणं नाशस्तदसाधारणं कारणं मङ्गलपदवाच्यम् (म० प्र० १ पृ० २) इति। अत्र किरणावली । मङ्गलमाचरेत इति न विधिः । किं तु नमस्कारादिकमाचरेत् इति प्रत्येकमेव विधिकल्पनम् इत्यस्मद्गुरवः ( किर० पृ० ६) इति । तत्त्वचिन्तामणौ चोक्तम् । मङ्गलमाचरेत् इति न विधिः । किंतु निर्विघ्नसमाप्तिकामः प्रारिप्सितविघ्नोपशमनकामो वा देवतास्तुतिमाचरेत् इत्यादिः प्रत्येकमेव विधिः । मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy