________________
न्यायकोशः।
६३७ त्वात्फलम्। श्रौतात्साङ्गात्कर्मणः फलावश्यंभावनियमात् । नतु विघ्नध्वंसो मङ्गलस्य फलम् । तस्यापुरुषार्थत्वात् ( वै० उ० १।१।१ ) इति । अत्र शङ्का । कृतमङ्गलस्यापि कादम्बर्यादौ फलादर्शनात् अकृतमङ्गलस्यापि किरण्यावल्यादौ समाप्तिरूपफलदर्शनाच्च ग्रन्थारम्भे मङ्गलं नानुष्ठेयम् । नहि निष्फले प्रेक्षावान् प्रवर्तते इति । अत्रोत्तरम् । मङ्गलाकरणस्थले किरणावल्यादौ जन्मान्तरीयस्य मङ्गलस्य मङ्गलशरणस्थले कादम्बर्यादौ चाङ्गवैगुण्यस्य कल्पनया सफलत्वं निश्चीयते इति । जन्मान्तरीयमङ्गलानुमानं तु इदम् मङ्गलम् आरब्धकर्माङ्गम् कर्मार्थितया शिष्टैस्तत्पूर्व क्रियमाणत्वात् फलान्तराभावे सति फलवकर्मारिप्समानेन नियमतस्तत्पूर्व क्रियमाणत्वाच्च दर्शे प्रयाजवत् (चि. १ मङ्गलवा० पृ० १९) इति । अत्र मङ्गलस्य स्वाभिमतहेतुत्वे तथाविधशिष्टाचारानुमितश्रुतिरेव मानम् (चि० १ मङ्गलवा० पृ० १५)। अनुमितश्रुतिश्च समाप्तिकामो मङ्गलमाचरेत् इति । अत्र श्रुत्यनुमानं तु नमस्कारादिकम् मङ्गलम् वेदबोधितसमाप्तिसाधनताकम् समाप्त्युद्देश्यकालौकिका विगीतशिष्टाचारविषयत्वात् दर्शादिवत् इति । अत्र यो यदुद्देश्यकाविगीतशिष्टाचारविषयः स वेदबोधिततत्साधनताकः यथा दर्शः इति सामान्यतो व्याप्तिद्रष्टव्या ( मू० म० १ मङ्गल० पृ० १६)। अथवा मङ्गलं वेदबोधितकर्तव्यताकम् अलौकिकाविगीतशिष्टाचारविषयत्वाद्दर्शश्राद्धवत् (त० दी० १ मङ्ग० पृ० २) इति। मङ्गलस्य कर्तव्यत्वे प्रमाणमनुमानमपि । तच्च मङ्गलं सफलम् अलौकिकाविगीतशिष्टाचारविषयत्वात् अग्निहोत्रवदिति । अत्र शिष्टश्च वेदप्रामाण्याभ्युपगन्ता । वेदप्रामाण्यानभ्युपगमविरोधिमत्त्वमिति यावत् । विरोधी तु सर्वे वेदाः प्रमाणमिति ज्ञानं तादृशसंस्कारश्च (म० प्र० १ ) (मू० म० १ मङ्गल० पृ० १६)। सफलत्वं च बलवदनिष्टाननुबन्धीष्टफलकत्वम् । अविगीतत्वं तु बलवदनिष्टाननुबन्धित्वम् । तच्च स्वजन्येष्टापेक्षयाधिकानिष्टजनकत्वं यद्यत् तद्भिन्नत्वम् (म० वा० पृ० १ )। अथवा धर्मशास्त्रानिषिद्धत्वा(नील० १ मङ्ग० पृ० २)। शिष्टत्वं चेष्टसाधनत्वांशे अभ्रान्तत्वम् । आचार
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org