________________
न्यायकोशः। रेणानुमानं द्विविधम् । तथा चोक्तम्-दृष्टं सामान्यतो दृष्टमिति चास्य विधाद्वयम् । पूर्व प्रत्यक्षयोग्यार्थं तदयोग्यार्थमुत्तरम् ॥ इति ( ता० र० श्लो० २१ ) ( प्रशस्त० २ )। मायावादिनस्तु-अनुमानं न त्रिविधं किंतु अन्वयिरूपमेकमेवेत्याहुः ( वेदान्तप० पृ० ३४ )। २ लिङ्गम्
(चि० २) अनुमितिः- ( अनुभवः ) [क] व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यं ज्ञानम्
(चि० २)। अत्र व्याप्तिविशिष्टपक्षधर्मताज्ञानेन जन्यमिति विग्रहः । तदर्थश्च व्याप्तिविशिष्टपक्षधर्मत्वविषयताशालिनिश्चयत्वावच्छिन्नकारणतानिरूपितकार्यत्वे सति ज्ञानम् (वाक्य० )। व्याप्तिनिष्ठप्रकारतानिरूपिता या हेतुनिष्ठा प्रकारता तन्निरूपिता या पक्षतावच्छेदकावच्छिन्नविशेष्यता तच्छालिज्ञानजन्यं ज्ञानमिति निर्गलितोर्थः ( दि० २।१३८ )। व्याप्तिविशिष्टपक्षधर्मताज्ञानं च परामर्शशब्दव्याख्यानावसरे निरूपयिष्यामः । अत्रेदं बोध्यम्-ज्ञानलक्षणसंनिकर्षसत्त्वेपि तस्य दुर्बलत्वेन परामर्शानन्तरं पर्वते वह्नयनुमितिरेव न तु प्रत्यक्षमिति ( म० प्र० ७३ )। अनुमितेर्लक्षणं च अनुमितित्वमेव । तच्च अनुमिनोमि इत्यनुभवसिद्धो जातिविशेषः । जन्यशब्दधीजन्यत्वव्यभिचारिणी या जन्यज्ञानजन्यत्वाव्यभिचारिणी च जातिः ( अनुमितित्वं ) तद्वदनुभवत्वम् (न्या० म० २।१४ ) ( त० प्र०)। पदप्रयोजनादिकं तु तत एव ज्ञेयम् । [ख] परामर्शजन्यं ज्ञानम् ( त० सं० )। [ग] लिङ्गज्ञानजन्यं लिङ्गिज्ञानम् ( त० कौ० ) । [घ] व्याप्तिज्ञानकरणकं ज्ञानम् (मु०)। यथा पर्वते धूमेन वह्निसाधने पर्वते धूमज्ञानानन्तरं पर्वतो वह्निमान् इति ज्ञानम् (त० कौ० ) (त० सं० )। अनुमितिर्द्वधा । पक्षतावच्छेदकसाध्ययोः सामानाधिकरण्यमात्रावगाहिनी तयोरवच्छेद्यावच्छेदकभावावगाहिनी च (ग० पक्ष० )। अत्रेदमवधेयम् । पर्वतो वह्निमान् इत्याद्यनुमितौ यदा वह्निपर्वतत्वयोः सामानाधिकरण्यमात्रं विवक्षितं तदा सानुमितिः सामानाधिकरण्यमात्रावगाहिनी। यदा तु तयोयाप्यव्यापकभावो विवक्षितस्तदावच्छेद्यावच्छेदकभावावगाहिनी भव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org