________________
न्यायकोशः ।
३३
1
तीति । प्रकारान्तरेणानुमितिर्द्विविधा । लाघवज्ञान सहकृतानुमितिः इतरबाधप्रहसहकृतानुमितिश्चेति । अत्रेदं बोध्यम् – अन्वयव्यतिरेकव्याप्त्योरन्यतरनिश्चयेनाप्यनुमितिर्जन्यते इत्यनुभवो न तु युगपदुभयव्यात्युपस्थित्यैव जन्यत इति नियमः ( चि० २ ) । अनुमित्सा — सिषाधयिषाशब्दवदस्यार्थोनुसंधेयः ।
अनुमेय:
१ पक्षः । यथा-यस्तु सन्ननुमेये तत्समानासमानजातीययोः साधारणः स सन्नेव संदेहजनकत्वात्संदिग्धः (सव्यभिचारः) (प्रशस्त ० २ पृ० ४७ ) इत्यादौ – अनुमेयशब्दस्यार्थः । २ साध्यम् । यथापर्वतो वह्निमान्धूमादित्यत्र बहिरनुमेयः ।
--
अनुयोगिता – १ स्वरूपसंबन्धविशेषः । यथा भूतले घटसत्तादशायां
भूतलनिष्ठा भूतलस्वरूपा संयोगसंबन्धस्यानुयोगिता । २ अभावत्वात्मिका ( ग० सि० ) । यथा घटो नास्ति इति प्रतीतिविषये अभावे घटनिष्ठप्रतियोगितानिरूपितानुयोगिता । इयमपि स्वरूपसंबन्धविशेष एवेति केचिन्नैयायिका वदन्ति । अखण्डोपाधिरित्यन्ये वदन्ति । अनुवत्सरः --- प्रभवादिषष्टिसंख्यानां वत्सराणामादितः पञ्चानां पञ्चानां युगसंज्ञकानां यथासंख्यं संवत्सर - परिवत्सर - इदावत्सर - अनुवत्सर - इद्वत्सर इति पञ्च संज्ञाः । संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः । इदावत्सरस्तृतीयस्तु चतुर्थश्चानुवत्सरः । इद्वत्सरः पञ्चमस्तु तत्संघो युगसंज्ञकः ( पु० चि० पृ० ११ ) ।
अनुवाद : - ( अर्थवादः ) [क] विधिविहितस्यानुवचनमनुवादः (गौ०
२।१।६४ )। प्राप्तस्यानुं पश्चात्कथनं सप्रयोजनमनुवाद इति सामान्यलक्षणम् (गौ० वृ० २/१/६५ ) । विध्यनुवचनं चानुवादो बिहितानुवचनं च । पूर्वः शब्दानुवादो परोर्थानुवादः । किमर्थं पुनर्विहितमनूद्यते । अधिकारार्थम् । विहितमधिकृत्य स्तुतिर्बोध्यते निन्दा वा विधिशेषो वाभिधीयते । विहितानन्तरार्थोपि चानुवादो भवति । लोकेपि चानुवादः । पचतु पचतु भवानित्यभ्यासः । क्षिप्रं पच्यतान्या० को ० ५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org