________________
३१
न्यायकोशः। हि । यत्र स्वयमेव भूयोदर्शनेन यत्र धूमस्तत्राग्निरिति महानसादौ व्याप्ति गृहीत्वा पर्वतसमीपं गतस्तद्गते चाग्नौ संदिहानः पर्वते धूमं पश्यन् यत्र धूमस्तत्रामिः इति व्याप्तिं स्मरति। तदनन्तरं वह्निव्याप्यधूमवान्पर्वतः इति ज्ञानमुत्पद्यते। अयं लिङ्गपरामर्श इत्युच्यते । तस्मात् पर्वतो वह्निमान इति ज्ञानम् अनुमितिरुत्पद्यते । तदेतत्स्वार्थानुमानम् । यत्तु स्वयमेव धूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयवोपेतं वाक्यं प्रयुङ्क्ते तत्परार्थानुमानम् (त०सं०)। प्रकारान्तरेणानुमानं त्रिविधम् । पूर्ववत् शेषवत् सामान्यतो दृष्टम् । अत्र व्युत्पत्तिः पूर्व कारणं तद्वत् इति । तदर्थस्तु [क] कारणलिङ्गकम् । यथा मेघोन्नतिविशेषेण वृष्ट्यनुमानम् (गौ० वृ० १।१।५)। [ख] यत्र कारणेन कार्यमनुमीयते यथा मेघोन्नत्या भविष्यति वृष्टिः इति ( वात्स्या० १।१।५ )। शेषवच्छब्दव्युत्पत्तिस्तु शेषः कार्य तद्वत् इति । तदर्थस्तु [ क ] कार्यलिङ्गकम् । यथा नदीवृद्ध्या वृष्ट्यनुमानम् ( गौ० वृ० ११५१५)। [ख] यत्र कार्येण कारणमनुमीयते । पूर्वोदकविपरीतमुदकं नद्याः पूर्णत्वं शीघ्रत्वं च दृष्ट्वा स्रोतसोनुमीयते भूता वृष्टिः इति (वात्स्या० १२११५)। सामान्यतो दृष्टं च कार्यकारणभिन्नलिङ्गकम् । यथा पृथिवीत्वेन द्रव्यत्वानुमानम् (गौ०वृ० ११११५)। यथा वा इच्छादिभिरात्मानुमानम्। इच्छादयो गुणाः । गुणाश्च द्रव्यसंस्थानाः । तद्यदेषां स्थानं स आत्मेति (वात्स्या० १।१।५)। एवं केवलान्वयि केवलव्यतिरेकि अन्वयव्यतिरेकि इत्यपि त्रिविधमनुमानं बोध्यम् ( गौ० १।१।५)। वीतमवीतमिति भेदेन द्विविधमनुमानमिति सांख्याः। मीमांसकास्तु अन्वयव्यतिरेक्याख्यमेकमेवानुमानमस्ति । केवलान्वयि केवलव्यतिरेकि वानुमानं नास्तीत्याहुः ( म० प्र० १८)। अनुमानस्य द्वे अङ्गे । व्याप्तिः पक्षधर्मता चेति (म० प्र० २।२३)। अनुमानप्रमाणम् इत्यस्यार्थस्तु-अनुमितिप्रमायोगव्यवच्छिन्नमनुमानम् । तच्च व्याप्तिपक्षधर्मताविशिष्टलिङ्गज्ञानम् । अत्रेदमवधेयम्-अनुमानप्रयोगे कर्तव्ये पक्षः साध्यम् हेतुः दृष्टान्तश्व एतच्चतुष्टयं प्रायशः प्रयोक्तव्यम् । तत्र सद्धेतुस्थले व्यापकं साध्यम् । व्याप्यं हि लिङ्गम् (हेतुः ) भवति । प्रकारान्त१ अयोगेति पदच्छेदः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org