________________
न्यायकोशः। च० २०)। [ख] अनुभूतिर्हि स्वसद्भावेनैव कस्यचिद्वस्तुनो व्यव। हारानुगुणत्वापादनस्वभावो ज्ञानावगतिसंविदाद्यपरनामा सकर्मकोनु- भवितुरात्मनो धर्मविशेषः ( सर्वद० सं० पृ० ९८ रामानु० )। अनुमतिः-१ अनुज्ञा । यथा अनुमत्या व्यपेयादित्यादौ । २ कलाहीन
चन्द्रवती शुक्लचतुर्दशीयुक्ता पूर्णिमातिथिरिति याज्ञिका आहुः (वाच०)। अनुमा-अनुमितिः (मु० २)। यथा-अनुमायां ज्ञायमानं लिङ्गं तु - करणं न हि (भा० ५० श्लो० ६८ ) इत्यादौ-अनुमा शब्दस्यार्थः । अनुमानम्- ( प्रमाज्ञानविशेषः ) यथा धूमेन प्रत्यक्षेणाप्रत्यक्षस्य वह्न
ग्रहणमनुमानम् (वात्स्या० २।१।१६ )। अत्र मितेन लिङ्गेनार्थस्य पश्चान्मानमनुमानमिति व्युत्पत्तिः (वात्स्या० १।१।३ )। अनुमानस्य द्वे अङ्गे । व्याप्तिः पक्षधर्मता चेति । तत्र व्याप्त्या साध्यसामान्यसिद्धिः। हेतोः पक्षधर्मताबलात् साध्यस्य पक्षधर्मत्वविशेषः सिध्यति । पक्षधर्मेण
धूमवत्त्वेनाग्निरपि पर्वतसंबद्ध एवानुमीयते ( त० भा० १४ )। अनुमानम्- ( प्रमाणम् ) १ अनुमितिकरणम् (त० स० ) । अनुमितिकरणं द्विविधम् । तत्र प्रथमं व्याप्तिज्ञानम् (गौ० वृ० ११११५)। यथा पर्वतो वह्निमान् धूमादित्यादी धूमो वह्निव्याप्यः इति व्याप्तिज्ञानमनुमितिकरणं भवति ( त० कौ० १०)। अनुमानं च लिङ्गलिङ्गिनोः संबन्धदर्शनम् ( वात्स्या० ११११५)। तच्च सहचारप्रत्यक्षेण जन्यते ( गौ० वृ० १।१।५ )। एतस्य करणत्वाभिधानं च व्यापारवदसाधारणं कारणं करणमिति प्राचीनमतानुसारेण । अस्मिन् मतेनुमितिकरणपदस्य जनकतयानुमितित्वावच्छिन्नजनकवत्त्वे सत्यनुमितित्वावच्छिन्नजनकम् इत्यर्थः (वाक्य० ) । अत्र व्यापारस्तृतीयलिङ्गपरामर्शो ज्ञेयः (त० कौ० ) द्वितीयमनुमितिकरणं तु लिङ्गपरामर्शः । यथा वह्निव्याप्यधूमवानयम् इति ज्ञानमनुमितेः करणं भवति (चि० २) (त०भा० ) (त० सं०)। अत्र च फलायोगव्यवच्छिन्नं कारणं करणमिति नवीनमतानुसारेणैतस्य करणत्वाभिधानम् । अनुमानं द्विविधम् । स्वार्थम् परार्थम् । स्वस्यैवार्थः प्रयोजनं (अनुमितिः) यस्मात्तत् स्वार्थम् । परस्य प्रतिवादिनो मध्यस्थस्य वा अर्थोनुमित्यात्मकं प्रयोजनं संशयनिवृत्तिर्वा यस्मात्तत् परार्थम् । आयं स्वानुमितिहेतुः। द्वितीयं परानुमितिहेतुः । तथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org