________________
न्यायकोशः। द्विविधः । यथार्थः अयथार्थः । आद्यः तद्वति तत्प्रकारकानुभवः । स एव प्रमेत्युच्यते । द्वितीयः तदभाववति तत्प्रकारकानुभवः । सोप्रमेत्युच्यते। यथार्थश्चतुर्विधः । प्रत्यक्षम् अनुमितिः उपमितिः शाब्दः। यथार्थानुभवकरणमपि चतुर्विधम् । प्रत्यक्षम् अनुमानम् उपमानम् शब्दः इति (त० सं० ) (भा० ५० ५३)। एवमेवायथार्थानुभवोपि चतुर्विध इति तत्करणमपि चतुर्विधमिति च विज्ञेयम् । वैशेषिकमतेनुभवो द्विविधः । प्रमा अप्रमा चेति । तत्राप्रमारूपोनुभवो द्विविधः । भ्रमः संशयश्चेति (त० कौ० ६ )। २ विषयानुरूपा बुद्धिवृत्तिरनुभव इति पातञ्जलाः सांख्याः केचिद्वेदान्तिनश्चाहुः। विषयानुरूपत्वं च चित्तवृत्तेः वृत्तिसारूप्यमितरत्र (पा० सू० १।४) इति पातञ्जलसूत्रेभिहितम् । तथा हि । यथा पयः प्रणाल्या क्षेत्रादिकं प्राप्य चतुरस्राद्याकारेण परिणमते एवमेवेन्द्रियादिप्रणाल्यान्तःकरणं बहिनिःसृत्य विषयाकारेण परिणमते। तादृशपरिणामरूपवृत्त्या च विषयगतमज्ञानं निवारयतीति अन्तःकरणस्य विषयानुरूपभवनादनुभवत्वम् । स्मृतौ तु विषयसंनिकर्षाभावात् न विषयाकारताप्राप्तिरिति तद्भिन्ने ज्ञाने एवान्तःकरणस्यानुभवत्वम् । अनुभावः-१, अनुभववदस्यार्थीनुसंधेयः। २ कोषदण्डादिजातो राज्ञां
तेजोविशेष इति नीतिशास्त्रज्ञाः । ३ रसव्यञ्जको भ्रूभङ्गादिरित्यालंकारिकाः । तत्रोक्तम्-भावं मनोगतं साक्षात्स्वगतं व्यञ्जयन्ति ये । तेनुभावा इति ख्याताः इति । उद्बुद्धं कारणैः स्वैः स्वैर्बहिर्भावं प्रकाशयन् । लोके यः कार्यरूपः सोनुभावः काव्यनाट्ययोः ॥ इति च ( वाच० )। ४ [क] सामर्थ्यमिति केचिदाहुः (वाच०)। [ख] कर्मपुद्गलानां स्वकार्य
करणे सामर्थ्यविशेषोनुभावः ( सर्व० सं० पृ० ७८ आहेत० )। अनुभूतिः-[क] अनुभववदस्यार्थीनुसंधेयः (भा०प० ५२)। अनु
भूतिः प्रत्यक्षामिकैवेति चार्वाका आहुः । अनुमितिरपीति काणादसौगतौ । उपमितिरपीति केचिन्नैयायिकैकदेशिनः । अर्थापत्तिरपीति प्राभाकराः । अनुपलब्धिरपीति भट्टवेदान्तिनः । संभवरूपा ऐतिह्यरूपा चापीति पौराणिकाः (दि. १३)। चेष्टापीति तात्रिकाः ( सि०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org