________________
न्यायकोशः। मात्रपक्षको हेतुः (त० कौ० १४ )। यथा सर्व नित्यं प्रमेयत्वादित्यादि (गौ० वृ० १।२।५) (त० कौ० १४)। [घ ] अन्वयव्यतिरेकदृष्टान्तरहितो हेतुः । यथा सर्वमनित्यं प्रमेयत्वादिति (त० सं०)। इदं लक्षणचतुष्टयं प्राचीनमताभिप्रायेण । अत्र च साध्यसंदेहाव्याप्तिग्रहो न भवतीत्याशयः (गौ० वृ० १।२।५)। सर्वमनित्यं प्रमेयत्वादित्यत्र सर्वस्यैव पक्षत्वात् दृष्टान्तो नास्तीति प्रमेयत्वं हेतुरनुपसंहारी । एतज्ज्ञानं च व्याप्तिग्रहे प्रतिबन्धकम् । तथा हि । सर्वस्य पक्षत्वे . व्याप्तिग्राहकसहचारदर्शनस्थलाभावेन सहचारनिश्चयाभावे सति व्याप्तेरनिश्चयादिति (त० को०)। हेतावनुपसंहारित्वज्ञानदशायां हेतुसाध्ययोः सामानाधिकरण्यनिश्चयासंभवेन पक्षान्तर्भावेन च साध्यसंशयसत्त्वेन व्याप्तिसंशयसंभवादिति (नील० २।२७)। [3] केवलान्वयिधर्मसाध्यको हेतुः । स च अत्यन्ताभावाप्रतियोगिसाध्यकादिः (मु० १६८)। यथा घटोभिधेयः पटत्वादित्यादौ पटत्वं हेतुरनुपसंहारी । इदं च नवीनमतम् । तस्य चात्यन्ताभावाप्रतियोगिसाध्यकत्वरूपस्य ज्ञानाद्वयतिरेकव्याप्तिग्रहप्रतिबन्धो दूषकताबीजम् । अनुबन्धः-१ इच्छापूर्वकदोषविशेषाभ्यासः । यथा अनुबन्धादिकं दृष्ट्वा
सर्व कार्य यथाक्रमम् इत्यादौ । २ विषयप्रयोजनाधिकारिसंबन्धा एतचतुष्टयमिति वेदान्तिनः। ३ वातपित्तादिदोषाणामप्राधान्यमिति भिषजः। ४ प्रकृतिप्रत्ययागमादेशानां विकरणागमगुणवृद्ध्यादिकार्यविशेषार्थमनुबन्धनीयः परिनिष्पन्नपदकालेषु अश्रूयमाणतया नश्वरः इत्संज्ञतया कृतलोपो वर्ण इति शाब्दिकाः । ५ फलसाधनं पुनःपुनरनुष्ठानाभ्यास इति धर्मशास्त्रविदः। ६ बन्ध इति कोशकाराः । ७ आरम्भ इति
केचिदाहुः ( वाच०)। अनुभवः– ( बुद्धिः) १ [क] स्मृतिभिन्नं ज्ञानम् (त० सं० ) . (त० भा० २) (न्या० म० ११२ ) (त० कौ० ६ )। यथा अयं
घटः इति चाक्षुषप्रत्यक्षमनुभवः । [ख] अनुभवामि इत्यनुगतप्रतीतिसिद्धानुभवत्वजातिमान् ( न्या० म० १२२) ( त० कौ० ६.)। स
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org