________________
न्यायकोशः।
२७ साध्यवान् । उदाहरणं च सर्वमनित्यं प्रमेयत्वादित्यादि । अत्र केवलान्वयी धर्मः सर्वत्वमिति बोध्यम् । एवमन्यत्रापि प्रमेयत्वाभिधेयत्वादिकं केवलान्वयी धर्म इति ज्ञेयम् । न च सर्वमभिधेयं प्रमेयत्वादित्यत्राव्याप्तिः। विशेषादर्शनदशायां तस्यापि लक्ष्यत्वात् । अतएव तस्यानित्यदोषत्वम्। व्यतिरेकव्याप्तिग्रहप्रतिबन्धश्चास्य दूषकताबीजमिति तत्त्वम् (म०प्र०२६)। एतदादीनि लक्षणानि प्राचीनमताभिनेतानीति ज्ञेयम् । [ग] केवलान्वयिधर्मावच्छिन्नसाध्यसंदेहविषयवृत्तित्वम् । [१] साध्यवत्तानिश्चयसामान्यविरोधिसंशयविषयवृत्तित्वमिति कश्चिदाह (दीधि० २।२०२ )। [] केवलान्वयिधर्मव्यापकीभूतं यत्स्वप्रतिबन्धकतावच्छेदकीभूतसाध्यवत्तानिश्चयविशेष्यतासमानाधिकरणसाध्यसंशयविषयत्वं तद्वद्वृत्तित्वम् (ग०)। [च ] किंचिद्विशेष्यकनिश्चयाविषयसाध्यकत्वे सति किंचिद्विशेष्यकनिश्चयाविषयसाध्याभावकत्वमिति प्राञ्चो वदन्ति ( नील० २५ )। अनुपसंहारी-( हेत्वाभासः ) [क] व्याप्तिग्रहानुकूलैकधर्म्युपसंहाराभावो
यत्र स हेत्वभिमतः । स चान्वयेन व्यतिरेकेण वा सर्वस्य पक्षत्वे दृष्टान्ताभावात् । अनित्यो घटो घटाकाशोभयवृत्तिद्वित्वाश्रयत्वादित्यादौ च हेतुः । अत्र साध्यसाधनसाहचर्याज्ञानात्तस्य विरुद्धत्वाज्ञानदशायामनुपसंहारित्वेनेष्टत्वात् (चि० ९० ) । अयमनैकान्तिकप्रभेद इति विज्ञेयम् । अनुपसंहारिणो लक्षणं तु पूर्वोक्तानुपसंहारित्वमेव । तद्धेतुकतत्साध्यकसाध्यसिद्ध्यौपयिकव्याप्तिग्रहानुकूलोपसंहाराभावस्तस्यानुपसंहारित्वमित्यर्थो लभ्यते ( दीधि० २।२००-२०१)। [ख] केवलान्वयिधर्मावच्छिन्नपक्षको हेतुः ( चि० २।९० ) ( भा० प० ७५) (गौ० वृ० १।२।५)। अत्र पक्ष इत्यस्य साध्यनिश्चयविरोधिनः साध्यवान्न वा इत्यादेः संदेहस्य विषय इत्यर्थः ( दीधि० २।२०१)। सर्वमभिधेयं प्रमेयत्वादिति सद्धेतौ न केवलान्वयी पक्षतावच्छेदको वा। निश्चितसाध्यवद्वृत्तित्वात् । विप्रतिपत्त्या साध्यानिश्चयदशायां पक्षत्वे तदनुपसंहार्येव । व्यतिरेकिसाध्यके साध्याभाववद्वृत्तित्वाज्ञानदशायामिदं दूषणम् । तदवगमेपि साधारणसंकर एव (चि० २।९०)। [ग] वस्तु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org