________________
न्यायकोशः। भोजनम्गलाधो नयनम् । तच्च [क] गलाधःसंयोगावच्छिन्नक्रियानु
कूलव्यापारः । यथा ओदनं भुङ्क्त इत्यादौ धात्वर्थः । अत्र भुजधात्वर्थ
घटके तादृशक्रियारूपफल एव ओदनवृत्तित्वान्वयः ( ग० व्यु० का०२ - पृ० ४३ )। [ख] प्राश्चस्तु कठिनद्रव्यस्य गलबिलाधःसंयोजनं
भोजनम् इत्याहुः । भ्रमः-१ ( अप्रमा) [क] यत्र यन्नास्ति तत्र तस्य ज्ञानम् । समुदायार्थश्च तदभाववन्निरूपिततन्निष्ठविषयताप्रतियोगि ज्ञानम् इति । अत्र स्मृतेरपि भ्रमतया अनुभवत्वमपहाय ज्ञानत्वप्रवेशः (मु० म० १ प्रामा० पृ. ४०५)। भ्रमश्च दोषाजन्यते । भ्रमलक्षणं तु स्वानुयोगिनिष्ठनिशेष्यतानिरूपितत्व - स्वप्रतियोगिनिष्ठत्व - स्वावच्छिन्नत्व-एतत्रितयसंबन्धेन संबन्धविशिष्टान्यप्रकारताशालिज्ञानत्वम् (ग० अव० हेतु०) इति । अत्र स्वपदार्थस्तु विशेष्यविशेषणयोर्भासमानः संबन्धो ज्ञेयः । अत्रेदमवधेयम् । विपर्ययोपि प्रत्यक्षानुमानविषय एव भवति । प्रत्यक्षविषये तावत् प्रसिद्धानेकविशेषस्यापि पित्तकफानिलोपहतेन्द्रियस्यायथार्थलोचनात् संप्रत्यसंनिहितविषयविज्ञानजसंस्कारापेक्षादात्ममनसोः संयोगादधर्माच्चातस्मिन् तत् इति प्रत्ययो विपर्ययः । यथा गव्येव अश्वः इति । असत्यपि प्रत्यक्षे प्रत्यक्षाभिमानो भवति । यथा अपगतघनपटलमचलजलनिधिसदृशमम्बरम् अञ्जनचूर्णपुञ्जश्यामंशावरं तमः इति । अनुमानविषयेपि बाष्पादिभिधूमाभिमतैर्वह्नयनुमानम् गवयविषाणदर्शनाच्च गौः इति त्रयीदर्शनविपरीतेषु शाक्यादिदर्शनेषु इदं श्रेयः इति मिथ्याप्रत्ययो विपर्ययः (प्रशस्त० पृ० २४ )। [ख] तदभाववति तत्प्रकारकज्ञानम् (चि० १ प्रामा० पृ० ४०१ ) (त० प्र० १)(त० दी० )। [ग] अतस्मिन् तत् इति प्रत्ययः (न्या० वा० १ पृ० २६) ( भा०प० श्लो० १२८) ( त० भा० पृ० ४०)। [घ] विशेष्यताव्यधिकरणप्रकारकं ज्ञानम् (म. प्र. ४ पृ० ७३ ) । यथा
पुरोवर्तिन्येवारजते शुक्त्यादौ रजतारोपः । इदं रजतम् इति ज्ञानम् । (त० भा० पृ० ४० ) (त० प्र० १) (त० दी०)। यथा वा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org