________________
६३३
न्यायकोशः। विशिष्टस्यैव विशेषणस्य भेदकत्वम् । तदुक्तम् स्त्रीदाराद्यैर्यद्विशेष्यं यादृशैः प्रस्तुतं पदैः । गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः ॥ ( अमर० का० ३ वर्ग० १ श्लो० २) इति । यथा वा पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वादित्यादौ गन्धवत्त्वरूपं पृथिवीलक्षणं जलादिभेदकम् । २ भेदकारकम् । यथा कुठारो भिनत्तीत्यादौ कुठारो भेदकः । अत्र श्रीमध्वाचार्यैरुच्यते विद्यमानस्य भेदस्य ज्ञापको नैव कारकः
(उपा० ख०) इति । . भोगः-१ [क] सुखदुःखान्यतरसाक्षात्कारः (त० भा० पृ० ४)
( त० दी० १ पृ० ७ ) ( वाक्य० )।[ख] स्वसमवेतसुखदुःखान्यतरलौकिकसाक्षात्कारः (प्र० प्र०)। यथा आत्मनो भोगायतनं शरीरम् (त० दी० १ ) इत्यादौ भोगः । अत्र वेदान्तिनस्तु आनन्दमात्रानुभवो भोगः । यथा ॐ भोगमात्रसाम्यलिङ्गाच्च ॐ ( ब्रह्मसू० ४।४।२२ ) इत्यादौ इत्याहुः । अत्र भविष्यत्पुराणम् मुक्ता प्राप्य परं विष्णुं तद्भोगाँल्लेशतः कचित् । बहिःशान भुञ्जते नित्यं नानन्दादीन् कथंचन ॥ ( मध्वभा० ४।४।४ ) इति । २ रव्यादीनां राशिगतिकालः इति ज्योतिर्विद आहुः । अत्रोच्यते अतीतानागतो भोगो नाड्यः पञ्चदश
स्मृताः ( तिथि० त० ) इति । ३ सर्पदेहः इति काव्यज्ञा आहुः । भोगायतनम्-भोगस्यावच्छेदकम् । यथा यदवच्छिन्नात्मनि भोगो जायते
तद्भोगायतनम् (त० दी० १) इत्यादौ शरीरावच्छिन्न आत्मनि भोगो जायत इति शरीरं भोगायतनम्। तच्च भोगायतनम् स्थूलदेहः इति सांख्या
आहुः । अत्र सूत्रम् भोक्तुरधिष्ठानाद्भोगायतननिर्माणम् । अन्यथा पूतिभावप्रसङ्गात् (सांख्यसू० अ० ५ सू० ११४ ) इति । अत्र केचिद्वेदान्तिन आहुः । भोगसाधनं च लिङ्गशरीरमेव । तथा चोक्तम् पश्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् ॥ इति । सांख्यमते तु पश्चप्राणस्थले पञ्चभूतमात्राः इति भेदः । स्थूलदेहस्य भोगत्वं तु भोगावच्छेदकत्वात् उपचारात् इति बोध्यम् । अत्र सूत्रम् तदधिष्ठानाश्रये देहे तद्वादात्तद्वादः (सांख्यसू० अ०३ सु० ११) इति । ८० न्या० को.. .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org