________________
६३२
न्यायकोशः। अत्र भूयःसहचारदर्शनं च व्यभिचारज्ञानविरहेण सहितमेव व्याप्तिप्राहक भवति न त्वन्यथा । पार्थिवत्वलोहलेख्यत्वयोः शतशः सहचारं पश्यतः केवळसहचारदर्शनेपि हीरकादौ व्यभिचारदर्शनेन व्याप्तिग्रहानुदयात् (सि० च० २ पृ० २४ ) (त० दी० पृ० २१) । भूयोदर्शनशब्दस्यार्थविशेषं विकल्प्य तस्य व्याप्तिग्राहकत्वं खण्डयति नीलकण्ठः । भूयोदर्शनम् इत्यस्य (१) भूयसां दर्शनानां समाहारः इति ( २ ) भूयसां साध्यहेतूनां दर्शनम् इति (३) भूयस्त्वाधिकरणेषु दर्शनम् इति वार्थः । नाद्यः । एकत्रैव सहचारदर्शनधारया व्याप्तिनिश्चयप्रसङ्गात् । न द्वितीयतृतीयौ । एतद्रूपवानेतद्रसादित्यादौ साध्यहेत्वोरेकव्यक्तित्वात् साध्यहेत्वोरधिकरणे भूयस्त्वाभावेन व्याप्तिनिश्चया
नुत्पादप्रसङ्गात् ( नील० २ पृ० २१ ) इति । . भेदः-१ अन्योन्याभावः । २ प्रभेदः। ३ तादात्म्यातिरिक्तः संबन्धः
(म० प्र० ४ पृ० ४८ )। यथा राजपुरुष इत्यादौ राजपदार्थपुरुषपदार्थयोर्भेदेनान्वयबोधः अव्युत्पन्नः इत्यादी भेदः । अत्रायं नियमः निपातातिरिक्तनामार्थयोः साक्षात् (विभक्त्यर्थमद्वारीकृत्य) भेदेनान्वयबोधः अव्युत्पन्नः इति । एतादृशनियमस्वीकारेण राजा पुरुषः इत्यत्र स्वत्वसंबन्धेन राजपदार्थस्य पुरुषपदार्थे नान्वयबोधापत्तिः । ४ [क] राज्ञः सामाधुपायविशेषः इति नीतिशास्त्रज्ञा आहुः । [ ख ] वैरिणो बुद्धिभेदो भेदः ( जै० न्या० अ० १ पा० १ अधि० १)। तदुक्तमग्निपुराणे परस्परं तु ये द्विष्टाः क्रुद्धभीतावमानिताः । तेषां भेदं प्रयुञ्जीत परमं दर्शयेद्भयम् ।। ( अग्निपु० अ० २२५ ) इत्यादि । ५ पृथक्करणम् । ६ विदारणम् इति काव्यज्ञा आहुः । ७ विरुद्धधर्माध्यासः । तदुक्तं सर्वदर्शनसंग्रहे अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः - कारणभेदश्च ( सर्व० सं० पृ० ४०० शां० ) इति । भेदकम्-१ ( व्यावर्तकम् ) भेदज्ञापकम् । यथा नीलो घट इत्यादौ
नीलत्वं विशेषणं रक्तघटादिभेदकम् । तदुक्तम् भेद्यं विशेष्यमित्याहुर्भेदकं च विशेषणम् इति । अत्र विशेष्यस्य यादृशे लिङ्गवचने तादृशलिङ्गवचन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org