SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ ६३१ न्यायकोशः। वादोवधारिते। भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः ॥ (न्या० म० ख० ४ पृ० ३१ ) । तदर्थश्च तद्धानात् तयोः प्रमाणान्तरविरोधप्रमाणान्तरप्राप्त्योः हानात् अभावात् इति । तथा इन्द्रो वृत्राय वज्रमुदयच्छत् ( श्रुतिः ) ( म० प्र० ४ पृ० ६४ ) इत्यादिः । अयं भावः । अस्य वृत्रं प्रतीन्द्रवज्रोद्यच्छनाभावावगाहिप्रमाणान्तरस्यादर्शनात् न तद्बोधने प्रमाणान्तरविरोधः । नापि प्रमाणान्तरावगतार्थप्रतिपादकत्वम् । वृत्रं प्रतीन्द्रवज्रोद्यच्छनप्रतिपादकप्रमाणान्तरस्यादर्शनात् । अतो भूतार्थवादत्वम् ( लौ० भा० पृ० ५५ )। यथा वा वज्रहस्तः पुरंदरः इत्यादिश्च (त० कौ० ) इत्याहुः। अविरुद्धाप्राप्तार्थबोधकः शब्दः अर्थवाद इत्यन्ये वदन्ति । भूमिका–१ प्रयोजनसंपादिका युक्तिः ( राम० )। यथा विशेषपदस्य प्रयोजनमभिधातुं भूमिकामाह इत्यादौ ( दि. १)। यथा वा तदेवोपपादयितुं भूमिकां रचयति इत्यादौ ( सि० च० २ पृ० २४ )। २ नाट्ये अभिनेयपात्रादिप्रवेशान्तरसूचिका रचना इति नाट्यकलाभिज्ञा आहुः । अत्रोच्यते अन्यरूपैर्यदन्यस्य प्रवेशस्तत्र भूमिका इति । रङ्गसंचारिपात्राणां स्थानकं भूमिकां विदुः इति च।। भूयस्त्वम्-१ [क] इतरद्रव्यानभिभूतैः पार्थिवावयवैरारब्धत्वम् । पारिभाषिकं चैतद्भूयस्त्वं समानतत्रेपि ( वै० उ० ८।२।५ )। अत्र व्याकरणम् । अतिशयेन बहुः । ईयसुन् । बहोर्लोपो भू च बहोः (पा० सू० ६।४।१५८ ) इत्यनेनेयसुन्प्रत्ययस्थस्येकारस्य लोपः बहुशब्दस्य भू इत्यादेशश्च । तेन भूयस् इति रूपं सिद्ध्यति । तस्य भावः भूयस्त्वम् इति । [ख] जलाधनभिभूतभागारब्धत्वम् (वै० वि० ८।२।५)। यथा भूयस्त्वाद्गन्धवत्त्वाच्च पृथिवी गन्धज्ञाने प्रकृतिः(वै० सू० ८।२।५) इत्यादौ घ्राणेन्द्रियस्य भूयस्त्वम् । २ पुनःपुनः परिशीलनवत्त्वम् । यथा भूयोदर्शनमित्यादौ । भूयोदर्शनम्-साध्यसाधनयोर्व्याप्तिग्रहे जनकं तयोर्भूयःसहचारदर्शनम् । यथा धूमधूमध्वजयो नास्थानावच्छेदेन सामानाधिकरण्यावगाहिज्ञानम्। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy