________________
न्यायकोशः। पीतः शङ्खः लोहितः स्फटिकः इत्यादि ज्ञानम् ( त० कौ० ) ( भा० ५० श्लो० १२९ ) । यथा वा कृशोहम् बधिरः स्थूलः इति ज्ञानम् ( त० व०)। भ्रमो द्विविधः विपर्यासः (विपर्ययः) संशयश्च । तत्राद्यो यथा शरीरादौ आत्मत्वप्रकारकं गौरोहम् इत्याकारकं निश्चयरूपं ज्ञानम् (मु० गु० )। द्वितीयो यथा स्थाणुर्वा पुरुषो वा इति संशयरूपः ( भा० ५० श्लो० १३० )। प्रकारान्तरेण भ्रमो द्विविधः निरुपाधिकः सोपाधिकश्च । तयोः स्वरूपं चेत्थम् । दोषेण कर्मणा वापि क्षोभिताज्ञानसंभवः । तत्त्वविद्याविरोधी च भ्रमोयं निरुपाधिकः ॥ उपाधिसंनिधिप्राप्तक्षोभाविद्याविजृम्भितम् । उपाध्यपगमापोह्यमाहुः सोपाधिकं भ्रमम् ॥ ( सर्व० सं० पृ० ४२१ शां० )। [6] मिथ्याज्ञानापरपर्यायः अयथार्थनिश्चयः ( गौ० वृ८ ४।१।३ ) ( त० सं०)। अयं च मोहपक्षान्तर्गतो दोषविशेष इति विज्ञेयम् । [च ] विपरीतनिर्णयः ( त० को०)। अयं तु अप्रमाप्रभेदः। भ्रमसंशयभेदेन द्विविधा अप्रमा इति विभजनात् । तेन अत्रत्यभ्रमत्वस्य निर्णयत्वरूपस्य संशयासाधारणत्वेपि न क्षतिः। २ [क] अतिरिक्तविषयतापक्षे यत्प्रकारिका या विषयता तत्प्रकारव्यधिकरणविषयताकं ज्ञानम् । विषयतापक्षे इत्यस्य प्रकारताविशेष्यतावच्छेदकतातिरिक्ता सविषयका च इति पक्षे इत्यर्थः। यत्प्रकारिकेत्यादेरर्थश्च प्रकारो धर्मः तद्धर्माधिकरणावृत्तितद्विषयताकं ज्ञानम् इति । मिश्रास्तु तत्प्रकारकव्यधिकरणत्वं तत्प्रकारानधिकरणवृत्तित्वम् इत्याहुः ( मू० म० १ पृ० ४१९)। [ख ] स्वप्रकारव्यधिकरणविषयंताकं ज्ञानम् । अत्र स्वप्रकारव्यधिकरणत्वं च स्वप्रकाराधिकरणावृत्तित्वम् । मिश्रास्तु स्वप्रकारव्यधिकरणत्वं च स्वप्रकारानधिकरणवृत्तित्वम् इत्याहुः । तेन ग्रन्थकर्तृमते रजतारजतसाधारणधर्मद्रव्यविशेष्यकं द्रव्यं रजतम् इत्यादिज्ञानस्य न रजतत्वादिभ्रमत्वम् । मिश्रमते तु तस्य तद्धमत्वमिष्टमेव इति ( मृ० म० १ प्रामा० पृ० ४२०)। [ग] स्वव्यधिकरणप्रकारावच्छिन्नविषयताप्रतियोगि ज्ञानम् । स्वयधिकरणेति स्वाश्रयावृत्तिधर्मप्रकारकेत्यर्थः (मू० म० १ प्रामा० पृ० ४२२)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org