________________
न्यायकोशः।
६२७ (१२) आभीरी ( १३ ) चाण्डाली (१४) शाबरी (१५) पैशाची (१६) शौरसेनिका (१७) प्राकृता ( १८) एतदन्या तत्तद्देशभाषा चेति ( सा० द० परि० ६ श्लो० १५८-१६९)। तत्तद्भाषालक्षणानि च भाषार्णवे दृश्यानि । पात्रवर्णादिभेदेन भाषाप्रयोगस्तु साहित्यदर्पणे षष्ठे परिच्छेदे प्रतिपादितः स तत्रैव दृश्यः । तत्र संस्कृता सर्वदेशभाषाणां मूलभूता । २ व्यवहारशास्त्रज्ञास्तु प्रतिज्ञासूचकं वाक्यं भाषा इत्याहुः । मिताक्षरायां विज्ञानेश्वरेण भाषालक्षणमुक्तम् । यथा अर्थवद्धर्मसंयुक्तं परिपूर्णमनाकुलम् । साध्यवद्वाचकपदं प्रकृतार्थानुबन्धि च॥ प्रसिद्धमविरुद्धं च निश्चितं साधने क्षमम् । संक्षिप्तं निखिलाथं च देशकालाविरोधि च ॥ वर्षतुमासपक्षाहोवेलादेशप्रदेशवत् । स्थानावसथसाध्याख्याजात्याकारवयोयुतम् ।। साध्यप्रमाणसंख्यावदात्मप्रत्यर्थिनामवत्। परात्मपूर्वजानेकराजनामभिरङ्कितम् ॥ क्षमालिङ्गात्मपीडावत्कथिताहर्तृदा
यकम् । यदावेदयते राक्षे तद्भाषेत्यभिधीयते॥ (मिताक्षरा अ०२ श्लो०६)। भाषासमितिः-प्रिया वाचंयमानां सा भाषासमितिरुच्यते ( सर्व० सं०
पृ० ७९ आहे. )। भाषिकः तत्तच्छाखीयब्राह्मणस्वरो भाषिक इत्युच्यते । तदुक्तमाचार्यैः छन्दोगा बढचाश्चैव तथा वाजसनेयिनः । उच्चनीचस्वरं प्राहुः स वै
भाषिक उच्यते ( जै० न्या० अ० १२ पा० १ अधि० ८ )। भाष्यम्-सूत्रार्थो वर्ण्यते येन पदैः सूत्रानुसारिभिः । स्वपदानि च वर्ण्यन्ते
भाष्यं भाष्यविदो विदुः ॥ इति भाष्यलक्षणम् । भासः-मोष्ठकुक्कुटः। भासनम्-१ दीप्तिः। २ विषयता । यथा घटत्वं घटे भासत इत्यत्र
भासधात्वर्थः । अत्र घटनिष्ठं विशेष्यत्वमवच्छेद्यतासंबन्धेन सप्तम्यानुभाव्यते । एवम ज्ञाने घटत्वं भासत इत्यादौ निरूपितत्वमपि सप्तम्या
नुभाव्यते इति विज्ञेयम् ( श० प्र० श्लो० ७१ टी० पृ० ९० )। भाखरत्वम्-परप्रकाशकत्वम् ( वै० उ० २।१।३ ) । यथा भास्वरं शुक्लं
तेजसि (त० सं० ) इत्यादी स्पर्श उष्णस्तेजसस्तु स्याद्रूपं शुक्लभास्वरम् .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org