________________
६२६
न्यायकोशः। ४ मीमांसकास्तु भवितुर्भवनानुकूलो भावयितुर्व्यापारविशेषः । यथा यजेतेत्यादौ लिङाद्याख्यातार्थो भावनेत्याहुः ( लौ० भा० ) । अत्रायं विशेषो ज्ञेयः । भट्टमते शाब्दी भावना आर्थी भावना चेति भेदेन द्विविधा भावना । तत्रान्त्यायां भावनायां भाव्यजनकत्वम्। भाव्यत्वं चेष्टत्वम् इति विज्ञेयम् (त० प्र० ख० ४ पृ० ९४.)। ५ पौराणिकास्तु मानसज्ञानविशेषो भावना (चिन्ता० )। सा च त्रिविधा भावना विप्र विश्वमेतन्निबोधत । ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका ॥ ( विष्णुपु० अं० ६ अ० ७ ) इत्याहुः । ६ बौद्धमते भावनाचतुष्टयम् । तञ्च बौद्धशब्दे दृश्यम् । ७ भिषजस्तु निर्यासादिना चूर्णद्रव्यस्य मिश्रीकरणे चूर्णद्रव्यस्य निर्यासादिना संस्कारविशेषः ( औषधसंस्कारविशेषः) भावना इत्याहुः । तत्प्रमाणमुक्तं भावप्रकाशे यथा द्रवेण यावन्मानेन चूर्ण सर्व प्लुतं भवेत् । भावनायाः प्रमाणं तु चूर्णे प्रोक्तं भिषग्वरैः ॥
( वाच० ) इति । भावनापश्चकम्- हास्यलोभभयक्रोधप्रत्याख्यानैर्निरन्तरम् । आलोच्य
भाषणेनापि भावयेत्सूनृतं व्रतम् ॥ ( सर्व० सं० पृ० ६६ आहे. )। भावित्वम्-१ भविष्यत्त्वम् । २ भावविशिष्टत्वम् । भाव्यम्-भाव्यं च द्विविधम् ईश्वरस्तत्त्वानि च ( सर्व० सं० पृ०३५६
पातञ्ज०)। भाषणम्-यत्किचिज्ज्ञानानुकूलशब्दप्रयोगः। अत्रायं नियमः साधु भाषितव्यम्
नापभ्रंशितवै न म्लेच्छितवै इति श्रुतिः । खरादिशब्दास्तु रासभादौ म्लेच्छैरिवार्यैरपि संकेतिताः इति तत्प्रयोगे न दोषः ( श० प्र० श्लो० २२ टी • पृ० २६ )। न म्लेच्छितवै इत्यस्य म्लेच्छमात्रसंकेतितानां
शब्दानां प्रयोगो न कार्य इत्यर्थः । भाषा–१ तत्तद्देशस्थजनवर्तननिर्वाहकं वाक्यम् । यथा संस्कृतभाषा।
अथ भाषाविभागः (१) संस्कृता ( २ ) सौरसेनी ( ३ ) महाराष्ट्री
( ४ ) मागधी (५) अर्धमागधी ( ६ ) प्राच्या (७ ) अवन्तिका .. (८) दाक्षिणात्या ( ९) शाकारी ( १० ) बाह्रीका (११) द्राविड़ी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org