________________
न्यायकोशः। .
६२५ बोध्यम् ( भा० ५०) (त० सं०)। अत्र भाष्यम् । भावनासंज्ञक. स्त्वात्मगुणः दृष्टश्रुतानुभूतेष्वर्थेषु स्मृतिप्रत्यभिज्ञानहेतुः ज्ञानमददुःखादिविरोधी पटु अभ्यास आदर एतत्रिविधप्रत्ययजः । तत्र पटुप्रत्ययजो यथा पटुप्रत्ययापेक्षादात्ममनसोः संयोगादाश्चर्येर्थे पटुः संस्कारो जायते । यथा दाक्षिणात्यस्योष्ट्रदर्शनात्। अभ्यासप्रत्ययजो यथा शिल्पविद्याक्रियाब्यायामादिष्वभ्यस्यमानेषु तस्मिन्नेवार्थे पूर्वपूर्वसंस्कारमपेक्षमाणादुत्तरोत्तरस्मात् प्रत्ययादात्ममनसोः संयोगात् संस्कारातिशयो जायते । आदरप्रत्ययजो यथा प्रयत्नेन मनश्चक्षुषि स्थापयित्वा अपूर्वमर्थं दिदृक्षमाणस्य विद्युत्संपातदर्शनवदादरप्रत्ययः उत्पद्यते । तमपेक्षमाणादात्ममनसोः संयोगात्संस्कारातिशयो जायते । यथा देवह्रदे सौवर्णराजतपद्मदर्शनात् (प्रशस्त० २ पृ० ३४) इति । अत्रेदं बोध्यम् । उपेक्षानात्मकेन निश्चयेन ( अनुभवेन ) यः संस्कारो जायते स एवोद्रुद्धः स्मृतिजनकः । उपेक्षात्मकनिश्चयजन्यस्तु न स्मृतिं जनयतीति । संस्कारोयमपि सविषयकः । संस्कारश्चान्त्यस्मृत्युत्पादनेन रोगेण कालविशेषेण वा नश्यति । केचित्तु समानविषयस्मृत्या स नश्यति इत्याहुः ( त० व० पृ० २३१ ) (मु० स्मृतिनि० पृ० १९० )। [ख] पूर्वानुभूतवस्तुनः स्मृतिहेतुः संस्कारः ( त० प्र० ) ( त० को०)। [ग] ज्ञानजः संस्कारः । २ कृत्यपरनामा प्रयत्नः ( त० प्र० ख० ४ पृ० ८१)। यथा चैत्रस्तण्डुलं पचतीत्यादावाख्यातार्थः प्रयत्नो भावना। अत्रायं नियमः भावनान्वयिन्येव संख्याया अन्वयः इति । तेन कृष्णेन स्थीयते इत्यादी भावनाया अनन्वयेन संख्याया अप्यनन्वयेपि न क्षतिः इत्यवधेयम् ( त० प्र० ख० ४ पृ० ८१ )। ३ शाब्दिकास्तु धातुवाच्यो व्यापारो भावना । यथा पचतीत्यादावधःसंतापनादिरूपव्यापार इत्याहुः । पचति पाकमुत्पादयति इत्यस्य पाकानुकूला भावना तादृश्युत्पादना इति विवरणात् विव्रियमाणस्यापि तद्वाचकता इति भावः । अत्राधःसंतापनत्वफूत्कारत्वचुल्युपरिधारणत्वयत्नत्वादिभिर्बोधः सर्वसिद्धः । अत्रोक्तं भर्तृहरिणा व्यापारो भावना सैवोत्पादना सैव च क्रिया। कृञोकर्मकतापत्तेर्न हि यत्नोर्थ इष्यते ॥ ( वै० सा० धात्व० पृ० ५०-५१ ) इति । ७९ न्या० को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org