________________
६२०
न्यायकोशः। - बोधितोर्थः ( औपचारिकः)। ३ भक्तमन्नम् तन्संबन्धि भाक्तम् इति
काव्यज्ञा आहुः। भागः-१ पक्षतावच्छेदकाश्रयो यः कश्चन पक्षैकदेशः । यथा भागासिद्धिरित्यादौ । २ स्वत्वाश्रयः ( धनम् )। यो मां प्रति स्यात् इत्यादौ । अत्र भागः ( स्वत्वाश्रयः ) प्रत्याद्यर्थः । तदन्वयी संबन्धो द्वितीयार्थः । इत्थं च अस्मत्संबन्धी यो भागः स्यात् इति बोधः ( ग० व्यु० का०२ ख० २ पृ० ७६ ) । ३ एकदेशः। ४ त्रिंशांशकस्तथा. राशेर्भाग इत्यभिधीयते इति ज्योतिषज्ञा आहुः। ५. पूर्वाफल्गुनीनक्षत्रम् इति
मौहूर्तिका आहुः । ६ एकादशसंख्या इति गणका आहुः । भागवतम्- १ मोक्षप्रदश्रीभगवज्ज्ञानभक्तिवैराग्यप्रतिपादको महापुराण
विशेषः । यथा यैर्न श्रुतं भागवतं पुराणम् ( भाग० ) पिबत भागवतं रसमालयम् ( भाग० १।१।३) इत्यादौ । तथोक्तं श्रीमद्भागवते धर्मः प्रोज्झितकैतवोत्र परमो निर्मत्सराणां सतां वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् । श्रीमद्भागवते महामुनिकृते किंवा परैरीश्वरः सद्यो हृद्यवरुध्यतेत्र कृतिभिः शुश्रुषुभिस्तरक्षणात् ॥ ( भाग० १।१।२ ) इति। अत्रोच्यते । मरीचे शृणु वक्ष्यामि वेदव्यासेन यत्कृतम् । श्रीमद्भागवतं नाम पुराणं ब्रह्मसंमितम् ॥ तदष्टादशसाहस्रं कीर्तितं पापनाशनम् । सुरपादपरूपोयं स्कन्धै‘दशभिर्युतः ॥ भगवानेव विप्रेन्द्र विश्वरूपी समीरितः ( नारदीयपु० ४ अ० ९६ ) इति । तेन श्रीमद्भागवतं बोपदेवकृतम् इति केषांचित्तामसानां प्रलापो निरस्तः । बोपदेवकृतं तु देवीभागवतमेव इति तु वयं तत्त्वतो जानीमः । २ भगवद्भक्तः पुरुषः । यथा यत्र ह वा वीरव्रत औत्तानपादिः ध्रुवः परमभागवतः ( भाग० स्क० ५ अ० १७ गद्यम् २ ) इत्यादौ । तत्स्वरूपमुक्तं यथा सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः । भूतानि भगवत्यात्मन्नेष भागवतोत्तमः ॥ ( भाग० स्कन्ध० ११ अ० २ श्लो० ४५) इति । येन सर्वात्मना . विष्णुभक्त्या भावो निवेशितः । वैष्णवेषु कृतात्मत्वान्महाभागवतो हि ... सः॥ ( गारुडे० ) इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org