________________
न्यायकोशः। भावप्रतियोगित्वम् । यथा अनागतः कालः इत्यादौ कालस्य भविष्यत्त्वम् (वाक्य० १ पृ० ६)(नील० १ काल: पृ० १०)। [ख] आद्यकृतिप्रागभावः (न्या० म० ४ पृ० २०)। [ग] वर्तमानप्रागभावः । यथा पक्ष्यतीत्यादौ लडर्थः । अत्र लुडर्थस्य तादृशप्रागभावस्य तदर्थकृतौ प्रतियोगितासंबन्धेनान्वयः । प्रागभावानङ्गीकारे तु वर्तमानध्वंस एव लडर्थः (ग० व्यु० ल० पृ० १३६)।[] वर्तमानप्रागभावप्रतियोगित्वम् । यथा घटो भविष्यतीत्यादौ धात्वर्थोत्पत्तेर्भविष्यत्त्वम् । पक्ष्यतीत्यादौ चाख्यातार्थकृतेर्भविष्यत्त्वम् (त० प्र० ख० ४ पृ० ८२) (ल० म० लकार०)। [3] विद्यमानप्रागभावप्रतियोग्युत्पत्तिकत्वम् (तर्का० ख० ४ ) (दीधि० २)। यथा नङ्ग्यतीत्यादौ लुडर्थः ( त० प्र० ख० ४ पृ० ८३ ) ( ग० व्यु० ल० पृ० १३५ )। यथा वा आगमिष्यतीत्यादौ लटोर्थः । अत्र विद्यमानप्रागभावप्रतियोग्युत्पत्तिकागमनानुकूलकृतिमान् इत्यर्थो बोध्यते ( तर्का० ख० ४ पृ० ११)। [च] वर्तमानकालोत्तरकालोत्पत्तिकत्वम् (त० प्र० २) (दीधि० २)। यथा ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः । अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धर्हि लक्षणम् ॥ ( रघु० स० १० श्लो० ६ ) इत्यादौ । [छ] वर्तमानध्वंसः । यथा पक्ष्यतीत्यादौ लडर्थः । अयं च प्रागभावानङ्गीकारपक्षेपि संगच्छते इति विज्ञेयम् (ग० व्यु० ल० पृ० १३६)। २ पौराणिकास्तु महापुराणान्तर्गतपुराणविशेषः । यथा भविष्यत्पुराणमित्यादी इत्याहुः (नारदीय० पु० पा० ४ अ० १००)।
भाक्तः–१ लाक्षणिकः शब्दः । गौण इत्यर्थः । यथा सिंहो माणवक इत्यादी सिंहशब्दः । अत्र सिंहपदस्य सिंहसदृशे लक्षणा। सादृश्यं च शौर्यादिना इति नैयायिका आहुः । तथा च सिंहवृत्तिगुणसदृशगुणवान्माणवक: इति शाब्दबोधः। शाब्दिकास्तु सिंहपदस्य सिंह एवार्थः । माणवके च सिंहवृत्तिशौर्यक्रौर्यादयो गुणा आरोप्यन्ते इत्याहुः । तथा चैतन्मते सिंहवृत्त्यारोपितगुणवान्माणवकः इति बोधः। २ गोण्या वृत्त्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org