________________
६१८
न्यायकोशः।
निर्वाहः (ग० व्यु० का० ५ पृ० १०६)। अत्र शाब्दिका वदन्ति । भीत्रार्थानां भयहेतुः इति सूत्रस्थस्य भयहेतुः इत्यस्य भयपदार्थैकदेशानिष्टहेतुः इत्यर्थः । यजन्यं भयमेव न प्रसिद्धम् तत्र पञ्चमी न भवत्येव । तत्र पञ्चम्याः इष्टत्वे तु हेतुत्वारोपेण सा पञ्चमी ( ल० म० सुब० कार० ५ पृ० १०९) इति ।[घ] भावित्वेन स्वानिष्टचिन्तनम् । यथा व्याघ्राद्विभेति त्रस्यतीत्यादी धात्वर्थः । हेतुत्वं जन्यत्वं वा पञ्चम्यर्थः । तच्च धात्वर्थैकदेशे अनिष्टे चिन्तन एव वान्वितम् । तथा च व्याघ्रहेतुकस्य स्वानिष्टस्य भावित्वेन चिन्तनवान् इति व्याघहेतुकत्वेन भाव्यनिष्टधर्मिकचिन्तनवान् इति वा तत्र बोधः ( श० प्र० श्लो० ६८ टी० पृ०८०)।[] शाब्दिकास्तु अनिष्टज्ञानम् । यथा चोराद्विभेतीत्यादौ धात्वर्थो भयम् इत्याहुः । अत्र चोरापादानकानिष्टज्ञानम् इति बोधः ( ल० म० सुब० का० ५ पृ० १०९) । २ भयस्थायिभावको रसविशेषः इति रसशास्त्रज्ञा आहुः । अत्रोच्यते रौद्रशक्त्या तु जनितं चित्तवैक्लव्यदं भयम् ( सा० द० परि०,३ श्लो० १७८ ) इति । वैक्लव्यमस्थिरत्वम् । ३ निर्ऋतिपुत्रविशेषः इति पौराणिका आहुः (भा०
आ० अ० ६६ )। भवनम् -१ उत्पत्तिः कालस्य वस्तुना संबन्धविशेषो वा । यथा घटो
भवतीत्यादौ भूधात्वर्थो भवनम् । वैयाकरणास्तु उत्पत्त्यनुकूलो व्यापारः । यथा घटो भवतीत्यादी भूधातोरर्थः इत्याहुः (वै० सा० द० ) ( वाच० )। २ मन्दिरम् इति काव्यज्ञा आहुः। भविष्यत्-१ ( कालः ) यत्प्रागभावेन यः कालोवच्छिद्यते स तस्य
भविष्यत्कालः ( वै० उ० २।२।८ )। यथा घट उत्पत्स्यत इत्यादौ घटप्रागभावेन यः कालोवच्छिन्नः (विशिष्टः) स घटस्य भविष्यत्कालः। तर्ककौमुद्यां तु तद्व्यक्तिप्रागभावविशिष्टः कालस्तव्यक्तेरनागतकालः इत्युक्तम् । अन्यत्र चोक्तम् वर्तमानप्रागभावप्रतियोग्यवच्छिन्नकालः इति ।
अत्रायं विशेषः कालस्य संबन्धमात्रत्वमते अवच्छिन्न इति न देयम् (प० - मा० कालनि० पृ० ९२)। भविष्यत्वं च [क] वर्तमानकालवृत्तिप्राग
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org