________________
न्यायकोशः ।
६२१ भागासिद्धि: - ( स्वरूपासिद्धिः ) पक्षतावच्छेदकसामानाधिकरण्येन हेत्वभावः । यथा पृथिवी गन्धवती घटत्वादित्यादौ पृथिवीसामानाधिकरण्येन पादौ घटत्वाद्यभावः ( ग० बाध० ) । यथा वा पृथिव्यादयश्चत्वारः परमाणवः अनित्याः गन्धवत्त्वादिति । अत्र गन्धवत्त्वं हेतुः पक्षीकृतेषु सर्वेषु नास्ति । पृथिवीमात्रवृत्तित्वात् । अत एव भागे स्वरूपासिद्धत्वम् ( त० भा० वा० पृ० ४५ ) । तस्या उदाहरणान्तरं यथा घटशब्दावभिधेयौ मूर्तत्वात् (प्र० च० पृ० २४ ) इति ।
1
भाग्यम् – पूर्वा फल्गुनी (पु० चि० पृ० ३५३ ) ।
भाणः - ( रूपकम् ) दृश्यकाव्यविशेषः । यथा मुकुन्दानन्दभाणः पश्चायुधप्रपञ्चभाणः इत्यादिः । तल्लक्षणं च भाणः स्याद्धूर्तचरितो नानावस्थान्तरात्मकः । एकाङ्क एक एवात्र निपुणः पण्डितो विट: ॥|| (सा० द० परि० ६ श्लो० ५१३ ) इत्यादि । अहोरात्रं विटानां च चरितं भाण इष्यते ( मुकु० भा० टी० ) इति च ।
1
भानम् - १ विषयतावदस्यार्थोनुसंधेयः ( दि० १२ ) । यथा उपनीतभानमित्यादौ । २ ज्ञानम् । ३ प्रकाशः । ४ दीप्तिः ।
I
भारतम् - १ जम्बूद्वीपसंबन्धी वर्ष विशेषः । अत्रोच्यते हिमाहं दक्षिणं वर्ष भरणाय ददौ पिता । तस्माच्च भारतं वर्षम् ( वाच० ) इति । २ भरत - नृपस्य वंश्यः इति पौराणिका आहुः । ३ अग्निविशेष: इति याजका आहुः । ४ भरतमुनिकृतं नाट्यशास्त्रम् इति साहित्यशास्त्रज्ञा आहुः । ५ सत्यवतीसुतव्यासप्रणीतः ग्रन्थविशेषः । एतस्य महाभारतम् इति संज्ञा । तथाहि । चत्वारश्चैकतो वेदा भारतं चैतदेकतः । पुरा किल सुरैः सर्वैः समेत्य तुलया धृतम् ॥ चतुर्भ्यः सरहस्येभ्यो वेदेभ्योभ्यधिकं यदा । तदाप्रभृति लोकेस्मिन्महाभारतमुच्यते ॥ महत्त्वे च गुरुत्वे च प्रियमाणं यतोधिकम् । महत्त्वाद्भारतत्वाच्च ( भारवत्त्वाच्च) महाभारतमुच्यते ॥ ( भार० आ० अ० १ ) इति । अयं च ग्रन्थो लक्षश्लोकात्मक इति वदन्ति । तत्र यत्संख्यको ग्रन्थ एतावता कालेनोपलब्धस्तत्संख्या प्रदर्श्यते ।
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org