________________
न्यायकोशः। परमात्मा शेषी । जीवास्तु परमात्मशरीररूपत्वाच्छेषाः इति । मायावादिमते तु सगुणनिर्गुणभेदेन द्विविधं ब्रह्म । तत्र मायाश्रितः जाप्रदाद्यवस्थात्रयसाक्षी च ईश्वरः सगुणः । मायातीतम् अवस्थात्रयातीतं च निर्गुणम् इति विशेषो ज्ञेयः । ब्रह्मणः तटस्थलक्षणं च जगज्जन्मस्थितिप्रलयानां प्रत्येकमुपादानप्रत्यक्षचिकीर्षाकृतिमत्त्वम् इति । तेन नवलक्षणवत्त्वम् । तदुक्तं ब्रह्मसूत्रकारैः जन्माद्यस्य यतः (ब्र० सू०१।१।२) इति । अत्र श्रुतिः प्रमाणम् यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्म ( तैत्ति० उप० २।१।१ ) इति । ब्रह्मणः स्वरूपलक्षणं च सच्चिदानन्दात्मकत्वम् इति । अत्र श्रुतिः सत्यं ज्ञानमनन्तं ब्रह्म ( तैत्ति० उ० २।१।१ ) इति । निर्गुणं निष्कलं शान्तं निरवद्यं निरञ्जनम् (श्वे० ६।१९ ) इत्यादिश्च । ब्रह्मज्ञानम्-ब्रह्मविषयकतत्त्वज्ञानम् । तच्चारोपज्ञानं न्यायमतसिद्धम् इति
केचित्प्रलपन्ति (वाच० ) । वयं तु तच्च न्यायमते यथार्थज्ञानमेव इति वदामः । मायावादिनस्तु तत्त्वमसि ब्रह्माहमस्मि इत्यादिमहावाक्यार्थज्ञानानन्तरं मनननिदिध्यासनादिना सर्वात्मकोहम् ब्रह्मैवाहमस्मि इति प्रमारूपं प्रत्यक्षम् इति मन्यन्ते । श्रीपूर्णप्रज्ञाचार्यानुयायिनः श्रवणमननादिना पश्च भेदज्ञानम् विष्णुसर्वोत्तमत्वादिज्ञानानन्तरं भगवत्प्रसादफलं ( अहैतुकम् ) भगवदपरोक्षज्ञानम् इति प्राहुः । पञ्च भेदास्तु जीवेशयोर्भेदः जडजीवयोर्भेदः जडेश्वरयोर्भेदः जीवयोर्भेदः जडयोर्भेदश्च (परमा
श्रुतिः ) ( सर्व० पृ० १४२ पूर्ण० ) इति । ब्रह्मतत्त्वम् सजातीयविजातीयस्वगतनानात्वशून्यम् ( सर्व० सं० पृ०
१२८ पूर्णप्र०)। ब्राह्मः—(विवाहः ) ब्राझो विवाह आहूय दीयते शक्त्यलंकृता ( याज्ञ
वल्क्य ० अ० ११५८)। . ब्राह्मणः-१ अदृष्टविशेषप्रयोज्यब्राह्मणत्वधर्मवान् । यथा जात्या ब्राह्मण
इत्यादौ । अत्र ब्राह्मणपदार्थघटकतादृशधर्मे तृतीयान्तार्थस्य जात्यभेदस्यान्वयः । अत्रार्थे व्युत्पत्तिः ब्रह्म वेदम् परब्रह्म वा वेत्त्यधीते वा इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org