________________
६०४
न्यायकोशः। बाबैकैकेन्द्रियग्राह्यगुणत्वम्-[क] चक्षुस्त्वगुभयाग्राह्यबहिरिन्द्रियग्राह्य
परिमाणान्यगुणसमवेतजातिमत्त्वम् (दि० गु० पृ० १९३ )। यथा रूपादे बैकैकेन्द्रियग्राह्यगुणत्वम् । तादृशी जातिश्च रूपत्वादि । एतादृशजातिघटितलक्षणकरणेन संख्यादौ नातिव्याप्तिः । अतीन्द्रियरूपादौ नाव्याप्तिश्च इति ज्ञेयम् । बाबैकैकेन्द्रियग्राह्यगुणाश्च रूपम् रसः गन्धः स्पर्शः शब्दश्च इति ( भा० प० गु० श्लो० ९४ ) ( प० मा० )। [ख] बहिरिन्द्रियद्वयावेद्यबहिरिन्द्रियवेद्यगुणत्वसाक्षाव्याप्यजातिमत्त्वम्
(प० मा० )। बुद्धः-१ वेदतत्कर्मणोर्निन्दाकर्ता भगवतोवतारविशेषः । स च विष्णोश्चतुर्विंशत्यवतारमध्य एकविंशोवतारः । यथोक्तम् ततः कलौ संप्रवृत्ते संमोहाय सुरद्विषाम् । बुद्धो नाम्ना जिनसुतः कीकटेषु भविष्यति ॥ ( श्रीमद्भाग० स्क० १ अ० ३ श्लो० २४ ) इति । तन्मतं तु बौद्धशब्दव्याख्यानावसरे संक्षेपतः प्रदर्शयिष्यते तत्तत्र दृश्यम् । २ जागरितः • इति वेदान्तिन आहुः । ३ पण्डितश्च इति काव्यज्ञा आहुः। बुद्धिः-१ धर्मपत्नीभेद इति पौराणिका वदन्ति ( भा० आ० अ०६६)।
२ (गुणः) [क] बुद्धित्वसामान्यवती (प्र० प्र०) ( त० कौ० १ पृ० ६)। सा चात्ममात्रवृत्तिः । न त्वन्तःकरणवृत्तिः । अव्याप्यवृत्तिः मनोमात्रगम्या च । लक्षणं च बुद्ध्यादिपदवाच्यत्वम् । अनुभवसिद्धज्ञानत्वजातिरेव वा ( गौ० वृ० १।१।१५)। अथवा जानामि इत्यनुव्यवसायगम्यज्ञानत्वम् (त० दी० १ पृ० १४ ) ( सि० च० १ पृ० १६ )। अथवा संबन्धावच्छिन्नप्रकारतानिरूपितप्रकारितासमानाधिकरणगुणत्वव्याप्यजातिमत्त्वम् (ल० व० )। बुद्धिविशेषाः केचिदुच्यन्ते । संनिकृष्टे वस्तुनि तावत् अयम् इति बुद्धिरुत्पद्यते । विप्रकृष्टे वस्तुनि एषः इति बुद्धिः । क्रियायां स्वतत्रोयम् इति बुद्धिमपेक्ष्य त्वया इति कर्तृत्वोपरक्ता बुद्धिः । करणव्यापारविषयत्वबुद्धिमपेक्ष्य कृतम् इति कर्मबुद्धिः । अयं भुजिक्रियायां कर्ता प्रयोजकश्वायम् इति बुद्धिमपेक्ष्य भोजय इति बुद्धिः । नियोज्यनियोक्तव्यापारस्य विषयोयम् इति बुझ्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org