________________
"न्यायकोशः।" पेक्षम् एनम् इति ज्ञानम् । एवमन्यदपि बुद्ध्यपेक्षाहनीयम् (वै० उ० ८।२।१ पृ०,३६८-३६९)। [ख] आत्माश्रयः प्रकाशः (प० च० पृ० ३०)। [ग] आत्मगुणत्वे सत्यर्थप्रकाशः (त० प्र०) (त० भा० ) ( त० कौ० ) ( ता० र० श्लो० २९)। [घ] सर्वव्यवहारहेतुर्ज्ञानम् (त० सं० )। यथा भोगः ( वात्स्या० १।१।९)। भोगश्च सुखदुःखानुभवः । सर्वव्यवहारेत्यस्यार्थश्व व्यवहारः बुबोधयिषापूर्वकवाक्यप्रयोगः । तथा च तादृशव्यवहारजनकतावच्छेदकजातिमती समुदायार्थः । जातिपर्यन्तानुधावनेन निर्विकल्पकादौ नाव्याप्तिः । बुबोधयिषापूर्वकवाक्यप्रयोगे वाक्यार्थज्ञानत्वेन कारणत्वात् । कारणतावच्छेदकज्ञानत्वमादाय सर्वत्र लक्षणसमन्वयः (वाक्य० १ पृ०९)। अथवा सर्वे ये व्यवहारा आहारविहारादयः तेषां हेतुबुद्धिः इत्यर्थः ( सि० च० १ पृ० १९)। बुद्धिरुपलब्धिर्ज्ञानमित्यनान्तरम् (गौ० १।१।१५)। बुद्धिरुपलब्धिर्ज्ञानं प्रत्यय इति पर्यायाः (वै० उ० ८।१।१) (प्रशस्त० गु० पृ० २३.) (वै० उ० ३।१।२ ) ( ३।१।१८ )। यथा सा मणिकर्णिका स विश्वेश्वरः इत्यादिः ( त० कौ० )। बुद्धे निपर्यायत्वकथनेन सांख्यमतनिरासः । तन्मते बुद्धरन्तःकरणस्वरूपत्वम्। न्यायमते तु .मनोभिन्नान्तःकरणे मानाभावाद्बुद्धेरन्तःकरणभिन्नत्वमेवेति बोध्यम् ( सि० च० १ पृ० १९)। सांख्यास्तु सत्त्वरजस्तमोगुणात्मिकाया अनादिपरिणामिनित्यव्यापिप्रकृतेर्जडाया आद्यः परिणामोन्तःकरणरूपो महत्तत्त्वापरपर्यायो बुद्धिः (कु० १) (वै० उ० ८।१।१) (सि० च० पृ० १९) अध्यवसायो वा बुद्धिः इत्याहुः ( सांख्यसू० अ० २ सू० १३) । योयं कर्तव्यम् इति निश्चयः ( वृत्तिः) चितिसंनिधानादापन्नचैतन्यायाः सोध्यवसायः इति तल्लक्षणम् । मायावादिनस्तु निश्चयात्मकवृत्तियुतमन्तःकरणं बुद्धिः इत्याहुः । अत्रोच्यते । निश्चयात्मा निराकारो बुद्धिरत्यभिधीयते इति वाशिष्ठे ( सांख्य० भा० १।६४ )। मनो बुद्धिरहंकारश्चित्तं करणमान्तरम् । संशयो निश्चयो गर्वः स्मरणं विषया अमी ॥ इति ( वेदा० सा० )। न्यायमते बुद्धि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org