________________
न्यायकोशः ।
६०३
/
सूयः कर्तव्यः इति बोधनेन ब्राह्मणकर्तव्यत्वस्य बाधः इति विज्ञेयम् । बाधविभाजकं तु प्रकृतपक्षप्रकृतसाध्य वैशिष्ट्य ग्रह विरोध्युन्नायकत्वे प्रकृतपक्षप्रकृतसाध्यग्रहाविरोधित्वे च सति प्रकृतपक्षप्रकृतसाध्य वैशिष्टयग्रहविरोधित्वम् ( दीधि० २ बाध० पृ० २२० ) इति । बाधकमानम् — १ बाधवदस्यार्थोनुसंधेयः (दीधि० २ पक्ष० पृ० १२३ )। २ बाधकं प्रमाणम् । यथा नापि साधकबाधकमानाभावः पक्षत्वम् ( चि०२ पक्ष० पृ० ३३ ) इत्यादौ ।
बाधितः - ( हेत्वाभासः ) [ क ] साध्याभाववत्पक्ष को हेतुः । यथा वह्निरनुष्णः पदार्थत्वात् इति ( प्र० प्र० ) ( त० कौ० पृ० १५ ) । [ ख ] यस्य साध्याभावः प्रमाणान्तरेण निश्चितः सः । यथा वह्निरनुष्णो द्रव्यत्वाज्जलवदिति ( त० सं० ) । यथा वा हृदो वह्निमान् धूमादित्यादौ धूमो बाधितः । वह्निरनुष्ण इत्यत्र च वह्नौ पक्षे क्रियमाणे साध्याभावस्य अनुष्णत्वाभावस्योष्णत्वस्य त्वगिन्द्रियेण निश्चयात् द्रव्यत्वं हेतुर्बाधितः । यस्य साध्याभाव इत्यादेरर्थश्च पक्षविशेष्यकप्रमानिश्चयप्रकारीभूतसाध्याभावरूपबाधवान् । अथवा पक्षनिष्ठसाध्याभावादिरूपबाधवान्यः स बाधितः ( वाक्य० २ पृ० १८ ) । बाधितत्वं च कालात्ययापदिष्टत्वम् । तच्च उपजीव्यप्रमाणनिश्चितसाध्य विपरीतत्वम् । अथवा बाधात्मक हेतुदोषवत्त्वम् । एतज्ज्ञानं साक्षादनुमितिप्रतिबन्धकम् । वह्नावनुष्णत्वं नास्ति इति ज्ञाने सति वह्निरनुष्णः इति अनुमितेरसंभवात् । तदभावलौकिकनिर्णयस्य तद्वत्ताज्ञाने प्रतिबन्धकत्वात् (त० कौ० २ पृ० १५) ।
बालः- -१ [क] ग्रहणधारणपटुः ( त० दी० १ पृ० २ ) । तथा च ग्रहणपूर्वक धारणयोग्यः इत्यर्थः ( वाक्य ० ) । अयं शास्त्राध्ययने बालः इति ज्ञेयम् । यथा बालानां सुखबोधाय क्रियते तर्कसंग्रहः इत्यादौ । [ख] अधीतकाव्य कोशव्याकरणोनधीत न्यायो बालः इति केचिद्वदन्ति ( सि० च० पृ० १ ) । २ आ षोडशाद्भवेद्वालस्तरुणस्तत उच्यते इति व्यवहारज्ञा आहुः । ३ स्तनंधयो बाल इति लौकिकजना वदन्ति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org