________________
न्यायकोशः। बाध० पृ० ९) ( दीधि० २) (म० प्र० २ पृ० २८ )। द्वितीये च तद्वत्ताबुद्धौ तदत्यन्ताभावस्येव तद्वद्भेदस्यापि धियो विरोधि
त्वात् हेत्वाभासलक्षणस्यापि समन्वयः । एवं च वृत्त्यनियामकेन - तादाम्यसंबन्धेन अनुमितिस्वीकारे तत्संबन्धस्य प्रतियोगितावच्छेदकत्वे
च तत्र साध्यवद्भेदस्य बाधत्वं बोध्यम् (ग० २ बाध० पृ० ९)। तृतीये च प्राचीनमते पक्षः साध्यवान् पक्षे साध्यम् इति ज्ञानयोः समशीलयोरेकस्य यत्प्रतिबध्यत्वम् अन्यस्यापि तत्प्रतिबध्यत्वमनुभवसिद्धम् इत्याशयेन तदुक्तिः । एवं च एतादृशबाधज्ञानस्य ग्राह्याभावानवगाहित्वेपि नानुमितिं प्रति प्रतिबन्धकत्वहानिः । चतुर्थे पक्षे साध्याभाव इत्यस्यार्थश्च आधेयतया पक्षेण पक्षवृत्तित्वेन वा विशिष्ट इति । तथा च विशेषणविशेष्यभाववैपरीत्येपि प्रतिबन्धकत्वमक्षतम् इत्याशयेनेदं लक्षणम् इति ज्ञेयम् । पञ्चमे साध्याभावाधिकरणत्वम् साध्यवर्द्रदाधिकरणत्वं चेत्यर्थः । अधिकरणताभेदात्पूर्वस्माद्भेदः । एतदपि प्राचीनमतेन । सप्तमे पक्षान्यत्वादिकमित्यस्य साध्यवत्त्वव्यापकानुयोगिताकत्वादिविशिष्टं पक्षभेदादिकम् इत्यर्थः । तथा च भेदप्रतियोगिताभेदानुयोगित्वयोः समनियतयोरेकज्ञानं यत्र विरोधि अपरज्ञानमपि तत्र तथा इत्याशयेनेदम् (ग० बाध० पृ० १०)। एवमन्यत्रोह्यम् । बाधितं च लिङ्गमनेकविधम् । १ धर्मिग्राहकमानबाधितम् । घटो व्यापकः सत्त्वादिति प्रत्यक्षेण । परमाणवः सावयवा मूर्तत्वादिति अनुमानेन । मेरुः पाषाणमयः पर्वतत्वादिति सुवर्णमयत्वबोधकागमेन । २ साध्यप्रतियोगिग्राहकमानबाधितम् । वह्निरनुष्णः कृतकत्वादिति प्रत्यक्षेण । शब्दोश्रावणो गुणत्वादिति अनुमानेन । गवयत्वं गवयपदाप्रवृत्तिनिमित्तं जातित्वादिति उपमानेन । ३ साध्यग्राहकमानबाधितम् । नरशिरःकपालं शुचि प्राण्यङ्गत्वादिति
आगमेन । ४ हेतुग्राहकमानबाधितम् । जलानिलावुष्णौ पृथिवीतो . विपरीतस्पर्शत्वात्तेजोवदिति प्रत्यक्षेण । मनो विभु ज्ञानासमवाय्या
धारत्वादिति अनुमानेन । राजसूयो ब्राह्मणकर्तव्यः स्वर्गसाधनत्वा.
दग्निष्टोमवदिति राजसूयकर्तव्यताबोधकागमेन इति (चि० २ बाध० ' पृ० ११० )। अत्र राजा राजसूयेन यजेत इति श्रुत्या राज्ञैव राज
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org