________________
न्यायकोशः । (ग० बाध० पृ० १ )। साध्याभावप्रमा च प्रमात्वेन ज्ञातैवोपयुज्यते न स्वरूपसती । हेत्वाभासत्वात् । प्रमात्वज्ञानं विनाधिकबलत्वाभावेनादोषत्वात् । अप्रमायामपि प्रमात्वज्ञानेनुमितिप्रतिबन्धाच्च (चि० २ पृ० १०३-१०४ )। एकदेशिमतेन पक्षनिष्ठप्रमाविषयत्वप्रकाराभावप्रतियोगिसाध्यकत्वम् ( चि० २ पृ० १०३ । अत्रत्यविषयः प्रकारताशब्दव्याख्यानावसरे संपादितः इत्यत्रैव विरम्यते । रघुनाथशिरोमणिभट्टाचार्यैस्तु बाधस्वरूपमनेकविधमुक्तम् । तद्यथा १ साध्याभाववान् पक्षः । २ साध्यवदन्यः पक्षः । ३ पक्षावृत्तिसाध्यम् । ४ पक्षे साध्याभावः । ५ पक्षनिष्ठसाध्याभाववत्त्वादिकम् । ६ साध्यादेः पक्षावृत्तित्वादिकम् । ७ साध्यवसामान्यादेः पक्षान्यत्वादिकम् । ८ विशिष्टसाध्ये पक्षादेविशेष्याभाववत्त्वादिकम् । ९ पक्षादेः साध्यासमानाधिकरणधर्मवत्त्वम् ( दीधि० बाध० पृ० २१९) इति । यथा ह्रदो वह्निमान् धूमादित्यादौ हृदे धूमेन वह्निसाधने वह्नयभाववद्भदादिर्बाधः ( न्या० म० २ पृ० २१ ) । अत्र प्रथमे साध्याभाववत्त्वमनवच्छिन्नं ग्राह्यम् । अतो नाव्याप्यवृत्तिसाध्यकस्थले कपिसंयोगवानयं वृक्षः इत्यादावतिप्रसङ्गः। व्याप्यवृत्तिसाध्यकस्थले च पक्षनिष्ठानवच्छिन्नसाध्याभाववत्त्वं बाधः । यथा जलं पृथिवी स्पर्शवत्त्वादित्यादी जलनिष्ठपृथिवीत्वाभावो बाधः । अत्रायं विशेषो ज्ञेयः । यत्र तु देशकालावच्छेदेन साध्यसाधनम् यथा मूलावच्छिन्नो वृक्षः कपिसंयोगीत्यादौ उत्पत्तिकालावच्छिन्नो घंटो गन्धवान् पृथिवीत्वादित्यादौ च तत्र तदवच्छेदेन साध्याभाववत्त्वं बाधः। इमे असंकीर्णबाधोदाहरणे इति जेगीयेते ( न्या० म० २ पृ० २१) ( म०प्र० २ पृ० २८ )। परे तु घटः सकर्तृकः कार्यत्वादित्यादौ यत्र लाघवोपनीतमेकंमात्रकर्तृकत्वं भासते तत्र तदभावोसंकीर्णोदाहरणम् इति वदन्ति ( गौ० वृ० १।२।९)। यत्र तु पक्षतावच्छेदके धर्मेनतिरिक्तवृत्तित्वरूपसाध्यावच्छेदकताभानमुद्देश्यम् यथा पर्वतो वह्निमानित्यादौ तत्र पक्षतावच्छेदकसामानाधिकरण्येन साध्याभाववत्त्वं बाधः। यत्र तु तादृशधर्मसामानाधिकरण्यमात्रेण साध्यसिद्धिरुद्देश्या यथा हृदो वह्निमानित्यादौ तत्र तादृशधर्मावच्छिन्नं साध्याभाववत्त्वं बाधः (ग० ७६ न्या. को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org