________________
न्यायकोशः। व्रीहिप्रकरणपठितः समासो बहुव्रीहिः । तेन उन्मत्तगङ्गाद्यव्ययीभावे . नातिव्याप्तिः । बहुव्रीहिर्द्विविधः । समानाधिकरणः व्यधिकरणश्च । तत्र . समानाधिकरणो यथा चैत्रदत्तधन इत्यादौ आरूढवानरो वृक्ष इत्यादौ
च । अत्र चैत्रेण दत्तं धनं यस्मै इति व्यासवाक्यात् चैत्रकर्तृकयत्संप्रदानकदानकर्म धनम् इत्यन्वयबोधः । समासे तु चैत्रकर्तृकदानकर्म. धनसंबन्धी इत्यन्वयबोधः। संबन्धश्च स्वकर्मकदानसंप्रदानत्वम् इति बोध्यम् । आरूढवानर इत्यत्र आरूढो वानरो यम् इति व्यासे आङ्पूर्वकरुहधातोरूर्ध्वदेशावच्छिन्नसंयोगानुकूलक्रिया क्तप्रत्ययस्याश्रयः द्वितीयाया आधेयत्वम् अर्थः । तथा च वृक्षवृत्त्यूप्रदेशावच्छिन्नसंयोगानुकूलक्रियाश्रयो वानरः इत्यन्वयबोधः । समासे तु आरोहणकर्तृवानरसंबन्धी वृक्षः इत्यन्वयधीः। संबन्धः स्वकर्तृकारोहणकर्मत्वम् इति ज्ञेयम् । व्यधिकरणो यथा चक्रपाणिरित्यादौ । अत्र चक्रं पाणौ यस्य इति विग्रहवाक्ये यत्संबन्धिपाणिवृत्ति चक्रम् इत्यन्वयधीः । समासे तु चक्रयुक्तपाणिसंबन्धी इति बोधः (त० प्र० ख० ४ पृ० ४९ )। प्रकारान्तरेण बहुव्रीहिर्द्विविधः तद्गुणसंविज्ञानः अतद्गुणसंविज्ञानश्चेति । ( श० प्र० श्लो० ४४ )। लम्बकर्णः चित्रगुः इति क्रमेणोदाहरणद्वयम् । प्रकारान्तरेणापि द्विपदत्रिपदचतुष्पदादिभेदेन बहुविधः। यथा चित्रगुः जरतीचित्रगुश्चत्रः महन्नीलोत्पला सरित् इत्यादौ (श० प्र० श्लो० ४६ टी० पृ० ६० )। २ काव्यज्ञास्तु अनेकधान्यादियुक्तः । यथा तत् पुरुष कर्म धारय येनाहं स्यां सदा बहुव्रीहिः ( उद्भटः)
इत्यादी इत्याहुः। बाधः-१ अभावः ( वाक्य० ४ पृ० १९)। यथा अर्थाबाधो योग्यता
इत्यादौ (त० सं०)। २ प्रतिबन्धः। ३ पीडनम् इति काव्यज्ञा आहुः । ४ हेत्वाभासविशेषः। स च प्राचीनमते साध्याभाववत्त्वप्रमाविषयपक्षकत्वम् । अथवा प्रमितसाध्याभाववत्पक्षकत्वम् । तथा च साध्याभावप्रमैव दोषः । एतादृशबाधज्ञानस्य प्रमात्वविषयकतानियमेन प्रतिबन्धकताध्रौव्यादिति भावः। तथा चैतन्मते प्रमात्वविषयक- त्वस्यैव प्रतिबन्धकतायां प्रयोजकत्वाद्धेत्वाभासलक्षणस्य समन्वयो भवति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org