________________
न्यायकोशः। तु नापेक्षाबुद्धौ पूर्वपूर्वसंख्याविशिष्टत्वनियमः । अत एव सेनावनादिषु बहुत्वमात्रमुत्पद्यते । न तु संख्यान्तरम् । संशयस्त्वकोटिकोपि भवत्येव ('वै० उ० ७।२।८ पृ० ३२३ ) इति । ३ कचित् त्रित्वमात्रपर्यवसायि । कपिञ्जलन्यायात् । यथा वसन्ताय कपिञ्जलानालभेत इत्यादौ कपिञ्जलपदोत्तरबहुवचनबोध्यबहुत्वममुकसंख्याकेष्वेव तिष्ठति इति संख्यानियमने नियामकाभावात्रिष्वेव बहुत्वं कल्प्यते । तच्च बहुत्वम् पर्याप्त्या सर्वत्र वर्तते । समवायेन प्रत्येकं वृत्तिमत् । बहुव्रीहिः-१ (समासः ) [क] स्वांशस्य निरूढलक्षणाया ज्ञापकेन
शब्देन घटितः स्वगर्भस्य यादृशार्थस्य संबन्धित्वप्रकारेणान्वयबोधं प्रति समर्थः समासः स स्वगर्भतादृशार्थसंबन्धिबोधने बहुव्रीहिः। यथा आरूढवानरो वृक्षः पीतपयस्कं पात्रम् दत्तदक्षिणो द्विजः चित्रगुः इत्यादौ । आरूढवानरो वृक्ष इत्यत्र आरूढो वानरो यम् इति व्युत्पत्त्या स्वकर्मकारोहणकर्तृवानरसंबन्धित्वेन वृक्षम् पीतपयस्कं पात्रमित्यत्र पीतं पयो येन इति रीत्या स्वकरणकपानकर्मजलसंबन्धित्वेन पात्रम् दत्तदक्षिणो द्विज इत्यत्र दत्ता दक्षिणा यस्मै इति क्रमेण स्वसंप्रदानकदानकर्मदक्षिणासंबन्धित्वेन द्विजम् चित्रगुरित्यत्र चित्रा गौर्यस्य इति वाक्यानुसारेण चित्राभिन्नस्वगोसंबन्धित्वेन चैत्रं च बहुव्रीहिर्बोधयतीति सर्वत्र स्वगर्भतत्तदर्थसंबन्धित्वे धर्मिणामवगमो भवति ( श० प्र० श्लो० ४२ टी० पृ० ५३)। [ख] नियमतः समासप्रयुक्तलाक्षणिकोत्तरनामकसमासः। यथा चित्रगुरित्यादौ । अत्र चित्रगोस्वामिनि समासप्रयुक्तलक्षणोत्तरपद एव इति लक्षणसंगतिः । अन्यथा सुबथैकत्वादेस्तत्रान्वयो न स्यात् । प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वम् इति व्युत्पत्तः। अत्र पदप्रयोजनम् । राजपुरुषः इत्यादिवारणायोत्तरेति नामविशेषणम् । अर्धपिप्पली इत्यादितत्पुरुषवारणाय नियमतः इति पदम् । तत्पुरुषे तु न नियमतः । समासप्रयुक्तलाक्षणिकोत्तरनामके राजपुरुषः इत्यादौ व्यभिचारात् ( त० प्र० ख० ४ पृ० ४४ )। [ग] शाब्दिकानां मते प्रायेणान्यपदार्थप्रधानः समासविशेषो बहुव्रीहिः । अथवा [घ] बहु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org